________________
वस्त्रादि-पुक्तिः। अष्टलोह-समुद्भूतः सर्वेषामुपयुज्यते । य उतो दर्पणः सवं स्वैविध्यं नोपयुज्यते (१) ॥ १० ॥ दैवात्काल-विशेषाद्दा दैव-मानुष-राक्षसाः । देवेसु मानोद्भवनं सुखादिकमिहेष्यते ॥ ११ ॥ मानुषे सह(साह) सम्मानं सुखादिरुपलभ्यते । दैवे सर्वार्थ-संसिद्धिर्मानुषे सुखसम्पदः ॥ १२ ॥ राक्षसे विपदः सवा स्त्रयाणां हि गुणत्रयम् । देवाराधनतो दैवं विलासे मानुषं मतम् ॥ १३ ॥ संग्रामे राक्षसं पश्येत् इति भोजस्य सम्मतम् । वस्त्रं चतुर्विधं प्रोक्तं श्खेत-रतन्तथैव च ॥ १४ ॥ पीतवष्णमिति ब्रह्म-क्षत्र-विट्-शूद्र जन्मनाम् । खेतम्बाप्यथवा चित्रं सर्वेषान्तु प्रशस्यते ॥ १५ ॥ 'भोजस्तु' जाङ्गलादीनां त्रिविधं वस्त्रमुक्तवान् । कौषेयमथकार्पासं वाक्षं सुख-समृद्दये ॥ १६ ॥ वेतना(तानाः) गुरुता चैव कौषेयस्य गुणग्रहः । लघता गुरुता चैव वाक्षस्य गुण-संग्रहः ॥ १७ ॥ लोमजं वसनं भव्यं सर्वेषामुपपद्यते। अशोतता चालघुता लोमजस्य गुणग्रहः ॥ १८॥
अथैषां निर्णयः। कमिकोष-समुद्र तं कौषेय मिति गद्यते । ब्रह्म-क्षत्रिय-विट-शूद्राः कमयस्तु चतुर्विधाः ॥
सूक्ष्मासूक्ष्मौ मृदु-स्थूलो तन्तवस्तु यथाक्रमम् (३) ॥ १८ ॥ (३) मृदृष्टौम (क) (मद्दष्टम) इति (ख) पुस्तक पाठः ।
+ 'य उक्त इत्यारभ्य ...हेष्यते' इत्यन्तः साईनोको हि (ख) पुस्तके नास्ति ।
११