________________
युक्तिकल्पतरौसामान्यामात्य-भूपाल-चक्रवर्त्तिषु योजयेत् । शुक्रवर्णा च सर्वेषां सर्वत्रैवोपयुज्यते ॥ १ ॥ विशोणता कोमलता उच्चता-समता तथा । खच्छता चेति कथितं शय्यानां गुणपञ्चकम् ॥ २॥ इत्थं विमृश्य स्वपिति शय्यायां यो महीपतिः । सचिरं सुखमाप्नोति दुःखन्तु विपरीतकम् (त:) ॥ ३ ॥
वितानतुल्यो व्यजनस्य वर्णः, प्रमाणमेवापर मत्र गद्यते । होने भवेदेष(षु) वितस्ति-सम्मितो; (१)
भवेच्चतुणों व्यजनं शुभाय (२) ॥ ४ ॥ पक्षवस्त्र-शलाकोस्य त्रिविधानां भवेदिति * । दर्पण: स्वर्ण-रजत-त्रपु-लौह-समुद्भवः ॥ ५ ॥ वितस्ति-सम्मितो.भव्यो रसाट्यः सुखवईनः । भव्यः सुखो जयः क्षेमचतुरङ्गलि-वईनात् ॥ ६ ॥ चतुर्विधानां भूपानां चतुरङ्ग-प्रसाधनः । आयाम-परिणाहाभ्यां चतुरङ्गलि-सम्मितः ॥ ७॥ सर्वेषामुपयुज्येत विजयो नाम-दर्पणः । पौरुषं पौरुषाईञ्च सदईञ्च यथाक्रमम् ॥ ८॥ चक्रवर्त्यन्यभूदेव-सामान्यानां प्रदर्शिताः । ऊर्छ विस्तृत-मानन्तु पौरुषं मानमुच्यते ॥ ८ ॥
(१) वितस्तिसंख्य इति (क) पुस्तक पाठः । (२) भव्योवसायः शुभमुखवईनः इति (ग) पुस्तक पाठः ।
* पक्षवस्त्रेत्यारभ्य-सुखवईन इत्यन्तः साई श्लोक: (ग) पुस्तके नास्ति ।