________________
७७
भृक्षारयुक्तिः। भानुदिक् नव सप्ताष्ट-रुद्रलोक-सुरोन्मिताः । अष्टावष्टौ समाख्याता आयाम-परिणाहयोः ॥ ७७ ॥ हि-चतुर्वाण-वेदाब्धि(६) वाणसप्ताष्ट(म) वृत्तिता (७)। यथाक्रमं समुद्दिष्ट आदित्यादि-दशाभुवाम् ॥ ७८ ॥ पद्मरागस्तथा वचं वैदुर्थं मौक्तिकन्तथा । नौलं मरकतञ्चैव मुक्ताच सप्त कीर्तिताः ॥ ६ ॥ भृङ्गारसप्तके न्यास्या(८)नभौमो मणिमर्हति । कानकं मृन्मयं वापि सर्वेषामुपयुज्यते ॥ ८० ॥ कानकन्तु क्षितीशानां मृन्मयं सार्बयोगिकम्। शङ्ख पद्मन्दुकह्वारं प्रत्यस्र विन्यसेत् क्रमात् ॥८१॥ चतुर्विधानां भूपानां चान्द्रः सर्वत्र शस्यते । श्वेतं रक्त तथा पोतं कृष्णं चन्दनमुच्यते ॥ ८२ ॥ एतेषां सलिलैः सेकः चतुर्णां स्यान्महीभुजाम्। मल्लो पद्मञ्च नीलञ्च तथा कृष्णापराजिता। एषां पुष्पानि केशेषु चतुर्जाति-महीभुजाम् ॥ ८३ ॥ होरकं पद्मरागश्च वैदुयं नौलमेव च । चत्वारो मणयो धेयाः चतुणां सेचनाम्भसि ॥ ८४ ॥ इत्थं निश्चित्य यः कुर्यात् नृपतिः सेकमात्मनः । स चिरायुर्भवेद्भोगी इतोऽन्यस्त्वन्यथाचरन् ॥ ८५ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ
भृङ्गारोहेशः ॥
(६) वालसप्ताष्ट इति (ग) पुस्तक पाठः । (७) सप्ताङ्गवत्तिता इति (ख) पुस्तक पाठः । (८) -न् भौमो इति (ख) पुस्तक पाठः।