________________
युक्तिकल्पतरौएषां पूर्ववदुन्नेयं जाति-दोष-गुणादिकम् ॥ ६८ ॥ स्थलजे जलजे चैव भाव्यमेत विशेषणम् । स्थलजं सुखदह्य हि दाहे मिषमिषायते ॥ ६८ ॥ जलजं बगिदुर्दह्यं महान्तं धूममुगौरेत् (४)। चामराणां समुद्दिष्ट इत्येवं लक्षणहयम् । एवं विमृष्य यो धत्ते स राजा सुखमश्नुते ॥ ७० ॥ जलजं चामरं राजा यो धत्ते जाङ्गलेश्वरः। तस्याचिरात् कुलं वीर्य लक्ष्मोरायुश्च नश्यति ॥ ७१ ॥ अनूपाधीश्वरो राजा यो वहेत् स्थल तथा । तस्यैतानि विनश्यन्ति लक्ष्मीरायुयशोवलम् ॥ ७२ ॥ नालं वर्णहये तेषां विधेयं शिल्पिनां क्रमात् । संस्कारो वालुकायन्त्र(यान्तु) मसूर-सलिलादिभिः (५) ॥७३॥ एषां कृत्रिमदण्डत्वं प्रतिभाति यदा क्वचित् ।
तदोष्ण-सलिल-काथात् कृत्रिमत्व विपद्यते ॥ ७४ ॥ इति श्रीभोजराजीय युक्तिकल्पतरौ उपकरणयुक्तौ चामरोद्देशः ॥
-
-
*
.mnaron
अथ भृङ्गारोह शः । . राज्ञोऽभिषेक-पात्रं यद् ‘भृङ्गार' इति तन्मतम् । तदष्टधा तस्य मानमाकृतिश्चापि चाष्टधा ॥ ७५ ।। सौवर्ण राजतं भौमं ताम्र' स्फाटिकमेव च * ।
चान्दनं लोहजं शाङ्ग मतदष्टविधं मतम् ॥ ७६ ॥ (४) मुद्दिशेत् इति (२) पुस्तक पाठः । (५) मसमसलिलादिभिः इति (२) पुस्तक एराठः ।
** 'सौवर्णमित्यारभ्य- उन्मिता' इत्यन्तं साईलीको (ख) पुस्तके नास्ति ।