________________
चाभरयुक्तिः ।
७५
७५
अथ जलजम् । लवणक्षु सुरा सर्पिस्तोयो दधिपयोधिषु । यथोत्तरं गुणवहाश्चमयः सप्तसप्तसु ॥ ५८ ॥ पुच्छानि तासां कृत्तानि (२) जन्तुभिर्मकरादिभिः । कदाचिदुपलभ्येत तत्तीरे पुण्य-शालिभिः ॥ ५ ॥ लवणाब्धि-समुद्भूतं पोतं गुरु-घनस्तथा। वहौक्षिप्तस्य(च) वालश्चेत् किञ्चिच्चट-चटायते ॥ ६० ॥ इक्षु-सिन्धूद्धवं ताम्र चामरं विमलं लघु । मक्षिका मशकाश्चैव तस्मिन् व्यजति चामरे ॥ ६१ ॥ सुराब्धि-जातं कलुष कबुरं गुरु-कर्कशम् । तद्गन्धेनैव माद्यन्ति (३) अपि वृक्षा मतङ्गजाः ॥ ६२ ॥ सर्पि:सिन्धूद्भवं स्निग्ध खेता-पोतं धनं लघु । वायुरोगा: प्रशाम्यन्ति तस्य वीजन-वायुना ॥ ६३ ॥ जल-सिन्धूद्भवं पाण्डु दीर्घ लघु घनं महत् । त्रिदशस्यैव तल्लक्ष्मीस्तस्य वीजन-वायुना ॥ ६४ ॥ दधि-सिन्धू-भवं खेतं वामनं लघुसंहतम् । अस्य वातेन नश्येत्तु कृष्णा मूर्छा-मदो भ्रमः ॥ ६५ ॥ नारिष्ट नेतयस्तस्य यस्येदं चामरं रहे। क्षीराब्धि-सम्भवं श्वेतं दीर्घ लघु घनं महत् ॥ ६६ ॥ अस्य चामर-राजस्थ विजेयो गुणविस्तरः । नाल्पेन तपसा लभ्यो देवानामपि जायते ॥ ६७ ॥ हियतेऽभ्यन्तरे सिन्धो गैः सम्पत्ति-लोलपैः ।
(२) समर्थैः इति (ख) पुस्तक पाठः । (३) मात्यन्ति इति (ग) पुस्तक पाठः ।