________________
७४
युक्तिकल्पतरौ—
विरला स्तनु-पर्वाण: चमर्थो ब्रह्म-जातयः । विना संस्कारमप्यासां चामरम्बिमलम्भवेत् ॥ ४७ ॥ दीर्घ-वालाः सुगुरवः कर्कशंशा भृशं घनाः । तीक्ष्णाग्रास्तनुपर्व्वाण श्वमयः क्षेत्रजातयः ॥ ४८ ॥ विना संस्कारमप्यासां चामरं विमलं भवेत् । दीर्घ-वालाः सुगुरवः कर्कशंशा भृशं घनाः ॥ ४८ ॥ विज्ञेयाः स्थलपर्व्वाण समर्थो वैश्यजातयः । संस्कारे चाप्यसंस्कारे न स्वभावं त्यजेदिद (य) म् ॥ ५० ॥ खर्बंबालाः सुलघवः कोमलाङ्गा भृशं घनाः । 'विज्ञेयाः स्थूलपर्व्वाण चमर्थो वैश्यजातयः ॥ ५१ ॥ संस्कारेण भवे(परि)च्छन्नं भवेन्मलिनमन्यथा ( दा) । खर्व-वालाः सुगुरवो विमला: कर्कशास्तथा ॥ ५२ ॥ चमर्थ्य-स्तनु-पर्वाणो विज्ञेयाः शूद्र-जातयः । संस्कारेणापि मलिनमासां चामरमिष्यते ॥ ५३ ॥ दीर्घता लघुता चै स्वच्छता घनता तथा । गुणाश्चत्वार इत्येते चामराणां प्रकीर्त्तिताः ॥ ५४ ॥ खर्व्वता गुरुता चैव वैवर्ण्य मलिनाङ्गता । दोषाश्चत्वार इत्येते चामराणां प्रकीर्त्तिताः ॥ ५५ ॥ दीर्घे दीर्घायुराप्नोति लघौ भीति-विनाशनम् । स्वच्छः (१) स्याद्दन-कौर्त्तिभ्यां घने स्युः स्थिर - सम्पदः ॥ ५६ ॥ खर्व्वं खर्वायुरुद्दिष्टं गुरुर्गुरु-भयप्रदः ।
विरले रोग-शोकाभ्यां मलिनं मृत्युमादिशेत् ॥ ५७ ॥ इति स्थलजम् ( चामरम् ) ॥
(१) खच्छे- स्यात् इति (ख) पुस्तक पाठः ।