________________
ध्वजयुक्तिः। उपर्युपरितो देयं (७) निष्यताके महीभुजाम् । अष्ट-षोड़श-हानिशचतुःषष्टिदलाम्ब जम् ॥ २० ॥ वृत्ताष्ट-दिग्दलेशाश्व(म्ब :) कुम्भः सम्पत्ति-कारकः । हंसश्चास: शुकःकेको एक्षिणश्च यथाक्रमम् ॥ २१ ॥ वचच्च पद्मरागच्च नौलं वैदुर्य मेव च । ब्रा-क्षत्रिय-विट्-शूद्र जातीनां स्याद् यथाक्रमम् ॥ २२ ॥ कनकं रजतं युग्मं हिविधानां महीभुजाम् । निष्यताक-ध्वज्ञानादि निमाण योगमिष्यते ॥ २३ ॥ पताका यदि हस्तैका सर्वाग्रे योग्यवर्णिनी। अयं ध्वजो बिशालाख्यो विज्ञ यश्चक्रवर्तिनः ॥ २४ ॥ तत्रैव चामरे योग्ये विज्ञ याः सर्वसम्पदः । इति राज्ञां समुद्दिष्टमन्येषां ध्वज उच्यते ॥ २५ ॥ नोई विंशति-हस्तेभ्यो नचार्वाग्दशहस्ततः । हस्त-हस्त कसंवृया ध्वजो दशविधोमतः । २६ ॥ सहस्राधिप (८) मारभ्य यावत् स्यादयुताधिपः ॥ २७ ॥ न सहस्राधिपान्यूनो ध्वज-धारण महति । अपि कोटिपते यो ध्वजो विंशति-हस्तकः ॥ २८ ॥ अत्रापि वर्ण-वस्त्रादि-निर्णय: पूर्ववन्मतः । स्थिरता चित्रता चेति निष्पताक ध्वजे गुणौ॥ २८ ॥ यदेतदुभयं चिह्न उभयोः संप्रकाशितम् । तत्प्रमाण-ध्वज ज यमप्रधानेन निर्णयः ॥ ३० ॥
(७) धेयम् इति (क) पुस्तक पाठः । (८) सहस्रादिकम् इति (ख) पुस्तक पाठः ।