________________
७०
युक्तिकल्पतरो
पताका साई-दैर्घ्येण दण्डमानं प्रकीर्त्तितम् । वर्णादिकन्तु यत्किञ्चित् तत् सर्व्वं पूर्व्ववन्मतम् ॥ १२ ॥ दीर्घता 'लघुता चेति सपताकध्वजे गुणाः । अङ्गादिकमन्यच्च ध्वजाग्रे युक्तितोन्यसेत् ॥ १३ ॥ संक्षेपेनेति निर्दिष्ट' पताका-विधि-लक्षणम् ।
एवं विमृश्य (ष्य) मतिमान् यः पताकां समाचरेत् ॥ १४ ॥ म प्राप्नोति श्रियं कीर्त्ति कुलवीय्य-वलोनतिम् । पताकां पृथिवी - पालो योऽज्ञानादन्यथा चरेत् । स विषीदति संग्रामे मन्ददन्त (६) इव द्विपाः ॥ १५ ॥ इति श्रीभोजराजीये युक्तिकल्पतरौ सपताकध्वजयुक्ति: ॥
००
अथ निष्पताकध्वजः ।
पूर्व्ववद्दण्ड-नियमस्तव दैर्घ्यं विशेषणम् । दण्डपाणि पद्मञ्च कुम्भश्च विहगोमणिः ॥ १६ ॥ निष्पताको ध्वजो राज्ञां षड्भिरेतैः सुसज्जितैः । जयः कपालो विजयः क्षेत्रस्तत्र शिव-क्रमात् ॥ १७ ॥ राज्ञः पुरुषमानेन दण्डमानं प्रकीर्त्तितम् । ऊर्द्धाधः क्रमयोगेन तद्दण्डादिकमुच्यते ॥ १८ ॥ केको चासो मत्स्यरङ्गः (ङ्ग:) द्विविधानां महीभुजाम् । ध्वजाग्रेषु विधेयानि पक्षाणि श्रियमिच्छताम् । पद्म ं कुम्भश्च विहगो माला चैव यथाक्रमम् ॥ १८ ॥
(६) मन्द दण्डः इति ( क ) - (ग) पुस्तक पाठः