________________
७२
युक्तिकल्पतरौ -
निष्पताक ध्वजोद्देशः प्रोक्तोऽयं भोज-भूभुजा ।
एतद्विमृश्य मतिमान् चिरं सुखमवाप्नु तात् ॥ ३१ ॥ यो दम्भादथवाज्ञानाद्दिलङ्घयति मानवः । स विमोदति नश्येत तस्य कीर्त्तिः कुलं वलम् ( ६ ) ॥ ३२ ॥
इति ध्वजयुक्तिः ।
अथोपकरण-युक्तिः ।
छत्र ध्वज सिंहासन यानादिभ्यो यदन्यत् स्यात् । राज्याङ्गं तदुपकरणं तम्माल्लोके विशेषास्तु ॥ ३३ ॥
तस्य [ उपकरणस्य ] गणना |
चामरश्चाथ भृङ्गारः चसकञ्च प्रसाधनम् । वितानश्चाथ शय्या च व्यजनं दर्पणाम्बरम् । एतन्रवकमुद्दिष्टं राजोपकरणाख्यया ॥ ३४ ॥ तत्र चामरोद्देशः । हस्तद्दयोन्नतः शुभ्भ्रः सुवर्णवलि-भूषितः । होरेणालङ्कृतो राज्ञां भव्यनामा सुखप्रदः ॥ ३५ ॥ वालश्चामर दैर्ष्याहा (त्वात्) आयामत्वं प्रकाशितम् । भव्यो भद्रो जयः श्रोल: (१०) सुख-सिद्धिश्चलः स्थिरः । वितस्त्येकेक सम्बृद्धया दिनेशादि-दशाभुवाम् || ३६ ॥
(2) कुलं मूलम् इति (ग) पुस्तक पाट: । (१०) शीलः इति (ग) पुस्तक पाठः ।