________________
युक्तिकल्पतरौ -
तत्रध्वज-युक्ति: ।
सेना-चिह्न चितोशानां दण्डोध्वज इति स्मृतः 1 सपताको निष्पताकः स ज्ञेयो द्विविधो वुधैः ॥ ४९२ ॥ स पातक-ध्वस्याग्रे यथा हस्तं परिन्यसेत् । जय-हस्तो ध्वजो नाम नैनं सामान्यमर्हति ॥ ४८३ ॥ वंशोऽथवा कुलः शालः पालाशश्चम्पकस्तथा । नैपो नैषो (१) थवा दण्डस्तथा वैराज- वारणः ॥ ४३४ ॥ अज्ञानादिक - (२) संज्ञानां वर्ण-रूपः प्रकाशित: । सर्व्वेषां चैव वंशस्तु दण्डः सम्पत्ति कारकः ॥ ४८३ ॥
अकचटतप यशाः ।
पताका सार्थ- दैर्घ्येण दण्डस्तु पृथिवी-भुजाम् | प्रतापाय पताकास्तु अष्टावेव प्रकाशिताः ॥ ४८६ ॥ पञ्चहस्तायता (यथा) हस्त-परिणाहा जयाभिधाः । जया च विजया भौमा चपला वैजयन्तिका ॥ ४८७ ॥ दीर्घा विलासा लोला च ज्ञेया हस्तेक वृद्धितः । परिणाहे पादवृद्धि रथ वर्णस्य निर्णयः ॥ ४६८ ॥ रक्तः श्वेतोऽरुणः पौतो चित्त्रो नोलोऽथ कर्बुरः । कृष्णश्चेति पताकानां वर्णः रूपः प्रकाशितः । अवर्णा (ज्ञा) दिकसंज्ञानां अष्टानामष्टक- त्रयम् ॥ ४८८ ॥ कलसो दर्पणश्चन्द्रः पद्मकोषो यथाक्रमम् । ब्रह्म-क्षत्रिय-विट्शूद्र जातीनां संप्रकाशितः ॥ ५०० ॥
(१) नैषा निम्बी इति (ख) पुस्तक पाठः । (२) अवर्णादिक इति (ख) पुस्तक पाठः ।