________________
छत्रयुक्तिः। आयाम-परिणाहाभ्यां नवमुष्टि-मितं हि तत्। इदं हि सर्वतोभद्रं सर्वेषामुपयुज्यते ॥ ४८३ ॥ एकैक मुष्टियातु यावहिंशतिमुष्टिकम् । मेषादि-लग्नजातानां नृणां छत्रमिदं क्रमात् ॥ ४८४॥
अथ सदण्डम्। पायाम-परिणाहेन हस्तहयमिदं हि यत् । स चतुर्हस्त-दण्डाव्यो दण्ड-छचोति गद्यते ॥ ४८५ ॥ सर्वेषां सुखसम्पत्त्यै सर्ववैवोपयुज्यते (१५)। एकैक वृया मुष्टिस्तु छत्रे दण्डे वितस्तयः (१६) । ४८६ ॥ ब्रह्म-क्षत्रिय-विट्-शूद्र जातीनां क्रमतो विदुः ॥ ४८७ ॥
क्रम नियमस्तु तथैव। शलाका बस्न-दण्डादि-वर्णः पूर्ववदिष्यते ॥ ४८८ ॥
भोजोऽपिलघुता दोघता चैव दण्ड-सूत्री-गुणग्रहः । इत्यं विचार्य यः कुर्यात् मानवश्छत्रमात्मनः ॥ ४८८ ॥ स लक्ष्मी विजयं कोत्तिं प्रतापञ्चाभिविन्दति । ४८० । यो मोहादथवा दम्भात् कुरुते छत्रमन्यथा । स विषौदति भोजस्य वाक्यमेतत् असंशयम् (१७) ॥४८१॥ ___इति भोजराजोये युक्तिकल्पतरौ छत्रयुक्तिः ।
(१५) उपजायते इति (ख) पुस्तक पाठः । (१६) वितस्त्रयः इति (ग) पुस्तक पाठःः । (१७) असंशयः इति (ख) पुस्तक पाठः ।