________________
पाद १. सू. १२५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः [४९ वर्तत इति अञोऽपि लुप । द्रः प्रत्ययस्य बहुषु वर्तमानस्य इति तु विज्ञायमाने न स्यात् । अस्त्रियामिति किम् ? पञ्चालस्यापत्यानि स्त्रियः पाञ्चाल्यः । लौहध्वज्याः स्त्रियः, पञ्चभिः पाञ्चालीभिः क्रीतः पञ्चपञ्चाल इत्यत्र तु इकणो लुपः पित्त्वात् पुवद्भावेन स्त्रीत्व निवृत्तेल प् भवत्येव ।१२४।
न्या० स० बहुध्वस्त्रियाम० बहिरङ्गा लुप् बाधते इति अत्र प्रकृतेः पूर्वं पूर्वमित्यन्तरङ्गत्वं बहिरङ्गत्वं च ।
ननु द्वे अपि लुपौ तत्कथं बाध्यबाधकभावः ? उच्यते, विधीनिति सामान्यभणनात अन्तरङ्गा लुप् बाध्यते । इति तु विज्ञायमाने न स्यादिति यदाप्येवं विवक्ष्यते तदापि न भवति, पञ्चालस्यापत्यानि पश्चालाः । अण् तेषामपत्यं युवा 'अत इञ्' ६-१-३१ अत्र प्रथमस्यायो न लुप् प्राजितीय' ६-१-१३५ इति निषेधात् । 'बिदार्ष' ६-१-१४० इति इत्रि लुप्तेऽपि न भवति बहुत्वाभावात् , ततः पाञ्चाल इत्येव भवति । यस्कादेगोत्र ॥ ६. १. १२५॥
यस्कादिभ्यो यः प्रत्ययो विहितस्तदन्तस्य बहुत्वविशिष्ट गोत्रेऽर्थे वर्तमानस्य यस्कादेर्यः स प्रत्ययस्तस्यास्त्रियां विषये लुप् भवति । यस्कस्यापत्यं यास्कः, यास्को, यस्काः, लाह्यः, लाह्यो, लह्याः शिवाद्यण् । यस्कादेरिति किम् ? उपगोरपत्यमोपगवः, औपगवी, औपगवाः, यास्कायनयः, लाह्यायनयः। गोत्र इति किम् ? यास्काश्छात्राः, यस्कस्यापत्यानि यस्काः, तत्प्रतिकृतयो यास्का इत्यत्र गोत्रे उत्पन्नस्यापि प्रत्ययस्य नेदानीं तदन्तं प्रतिकृतिषु वर्तमान गोत्र इति न भवति । अस्त्रियामित्येव ? यास्क्यः स्त्रियः। यस्क, लय, द्रा, अयस्थूण, तृणकर्ण, भलन्दन । एभ्यः शिवाघणो लप, खरप । अस्मान्नडाद्यायनणः। भडिल, भण्डिल, भडित, भण्डित, एभ्योऽश्वाचायनत्रः । सदामत, कम्बलहार, पर्णाढक, कर्णाढक, पिण्डीजङ्घ, वकसक्थ, रक्षोमुख, जङ्घारथः उत्काश, कदुमन्थ, कटुकमन्थ, विषपुट, निकष, (किषकः), कषक: उपरिमेखल, कडम, कृश, पटाक, क्रोष्ट्रपाद, क्रोष्टुमाय, शीर्षमाय, स्थगल, पदक, वर्मक एभ्योऽत इञः । पुष्करसद्, अस्माद्वाह्वादीनः। विधि, कृति, अजबस्ति, मित्रयु, एभ्यो, शृष्ठ्याधेयञः इति यस्कादिः ।१२५॥
न्या० स० यस्कादेर्गोत्रे-यास्का इति अत्र यदि गोत्रे उत्पन्नस्य प्रत्ययस्य लुबिति व्याख्यायेत तदात्रापि प्राप्नोति गोत्रे प्रत्ययस्योत्पन्नत्वात् न त्वेवं व्याख्यायतेऽपि तु प्रत्ययान्तस्य गोत्रे बहा वर्तमानस्येति, ततश्च नेह प्रत्ययान्तं गोत्रबहुत्वे कि तहि प्रकृतिबहुत्व इति, अथ यस्कादिगणो विव्रियते ।
यस्यति ‘निष्क' २६ ( उणादि) इति यस्कः । लहिः सौत्रः। लह्यति यति 'शिक्या ३६४ ( उणादि ) इपि लह्यः । द्रुह्यः। अयसः स्थूणा या, तृणवत् कौँ यस्य, भलिण अच भलमन्दति नन्द्यादित्वादनः, 'भण्डेने लुक् च' ४८२ (उणादि) इति भडिलः, भण्डिला,