________________
[ पाद. १. सू. ९६ - १०० ] श्रीसिद्धहेम चन्द्रशब्दानुशासने षष्ठोध्यायः
कुलादीनः ॥ ६. १. ९६ ।।
कुलशब्दान्तात्केवलाच्च कुलशब्दादपत्ये ईनः प्रत्ययो भवति, कुलस्यापत्यं कुलीनः । ईषदपरिसमाप्तं कुलं बहुकुलम् तस्यापत्यं बहुकुलीनः, क्षत्त्रियकुलीनः, एषु अत इञः अदोरायनेश्चापवादः । आढचकुलीनः, राजकुलीनः, अत्र 'अवृद्धाहोर्नवा' ( ६-१ - ११० ) इत्यायनिञोऽत इव । उत्तरसूत्रे समासे प्रतिषेधादिह कुलान्तः केवलश्च गृह्यते । ९६ ।
[ ३७
यैकत्रावसमासे वा ।। ६. १. ६७ ।।
कुलशब्दान्तात्केवलाच्च कुलशब्दादपत्ये य एयकञ् इत्येतौ प्रत्ययौ वा भवतः ताभ्यां मुक्ते ईनश्व न चेत् कुलशब्दः समासे वर्तते । कुल्यः कौलेयकः कुलीनः, बहुकुल्यः बाहुकुलेयकः बहुकुलीनः । असमास इति किम् ? आढचकुलीनः । ९७१
दुष्कुलादेयण् वा ॥ ६. १. ९८ ॥
दुष्कुलशब्दादपत्ये एयण् प्रत्ययो वा भवति । दौष्कुलेयः, दुष्कुलीनः ॥९८॥ महाकुलाद्वाञीनञौ । ६. १. ९९ ।।
महाकुलशब्दादपत्ये अञ् ईनञ् इत्येतौ प्रत्ययो वा भवतः ताभ्यां मुक्ते ईनश्च । माहाकुलः, माहाकुलीनः, महाकुलीनः, महेत्याकारनिर्देशात् महतां कुलं महत्कुलं तस्यापत्यं महत्कुलीन इति ईन एव भवति । ९९ ।
कुर्वादेः ।। ६. १. १०० ॥
कुरु इत्येवमादिभ्योऽपत्ये ञ्यः प्रत्ययो भवति । कौरव्यः, अक्षत्रियवचनस्येह कुरोर्ग्रहणम् । क्षत्रियवचनात्तु 'दुनादिकुवित्कोशलाजादाञ्यः ( ६- १ - ११८ ) इत्यनेन ञ्यः, अयं चानयोविशेषः । तस्य द्विसंज्ञत्वात् बहुषु लुप् । कुरवः । अस्य तु द्विसंज्ञाया अभावात् कौरव्याः ततो यूनि तिकादि - पाठादायनिञ् । कौरव्यायणिः । अस्माच्चात इञ् । तस्य ' ञिदाषादणिञोः ' ( ६-१-१४० ) इति लुप् । कौरव्यः । कुरुशब्दश्व तिकादिष्वपि पठ्यते । कौरवायणिः, उत्साद्यञ् तु ञ्यायनिञ्भ्यां बाधितः कुरुशब्दादपत्ये न भवति । शङ्कु, शाङ्कव्यः, बहुषु शाङ्कव्याः, स्त्री शाङ्कव्या । लोहितादौ पाठात् पौत्रादी यञि शाङ्कव्यः, बहुषु लुप् शङ्कवः, स्त्री शाङकव्यायनी । कुरु शङ्कु शकन्धु, शाकभू, पथिकास्मि, मतिमत्त्, पितृमत्, पितृमन्तु, वाच्, हन्तृ, हृदिक,
,