________________
३६ ] बृहदुवृत्ति-लघुन्याससंवलिते [पाद. १ ० ९२-९५ ] जातौ राज्ञः ॥ ६. १. ९२॥
राजनशब्दादपत्ये जातो गम्यमानायां यः प्रत्ययो भवति । राज्ञोऽपत्यं राजन्यः क्षत्रियजातिश्चेत् । जाताविति किम् । राजनोऽन्यः ।९२।
न्या० स०-जाती-यद्यपि जातिशब्दा अव्युत्पन्ना राजन्यादयस्तथाप्यपत्यार्थस्य व्युत्पत्तिनिमित्तत्वाश्रयणेन यप्रत्ययत्य आपत्यत्वात् 'तद्धितयस्वर' २-४-९२ इति प्राप्तौ राजन्यकमित्यत्र 'न राजन्यमनुष्ययोः' २-४-९४ इति निषेघो युज्यते ।
राजनोऽन्य इति राज्ञः स्वामिनोऽपत्यं वारणो वा । क्षत्रादियः ॥ ६. १. ९३॥
क्षत्रशब्दादपत्ये इयः प्रत्ययो भवति जातो गम्यमानायाम्, क्षत्रस्यापत्यं क्षत्रियः जातिश्चत् । क्षात्रिरन्यः ।९३। ____ न्या० स० क्षत्रा-क्षात्रिरन्य इति यदि जातिरपत्यस्य न गम्यते किंतु क्षत्रस्यापत्यमित्येतावदेव तत इयाभावे 'अत इञ्' ६-१-३१ इति इञ् । मनोर्याणौ षश्वान्तः ॥ ७. १. ४९ ॥
मनुशब्दादपत्ये य अण् इत्येतौ प्रत्ययौ भवतस्तसंनियोगे च मनुशब्दस्य षकारोऽन्तो भवति जातो गम्यमानायाम, मनोरपत्यानि मनुष्याः मानुषाः, मानुषी । जातावित्येव ? मानवः, मानवाः, मानवी: प्रजा: पश्य । अत्र हि मनोरपत्यमित्येतावानेवार्थो विवक्षितो न जातिस्तेन षोऽन्तो न भवति, वृद्धापत्यविवक्षायां तु लोहितादिपाठाद्यवेव । मानव्यः, मानव्यौ, मनवः, मानव्यायनी। मनुष्यमानुषशब्दाभ्यां सत्यसति चापत्येऽर्थे अनभिधानादपत्ये पुनरन्यः प्रत्ययो न भवति ।९४।।
न्या० स० मनो०-मनुशब्दस्येति अत्र प्रत्ययसंबन्धे उपयुक्तायाः पञ्चम्याः षष्ठीरूपतया विपरिणामः । जातौ गम्यमानायामिति अपत्याधिकारादपत्ये प्रत्ययो विज्ञायते. जाताविति च प्रकृतिप्रत्ययसमुदायविशेषणं न तु जातिः प्रत्ययार्थ इत्याह-षोन्तो न भवतीति अण सामान्यः सिद्ध एवाऽनेन षोऽन्त एव विधीयते इत्याह-अनभिधानादिति-यदापत्यार्थो न किंतु मन्यते इति 'शिक्यास्याढ्य' ३६४ ( उणादि) इति 'अपुषधनुषादयः' ५५९ ( उणादि ) इति च मनुष्यमानुषशब्दौ निपात्येते तदाऽनभिधानादनिष्टरित्यर्थः, यदा तु मनोरपत्यमिति तदाऽनभिधानादऽप्रतिपादनात्, अप्रतिपादनं च 'आद्यात् ' ६-१-२९ इति सूत्रात् , न वाच्यं वृद्धापत्ये येऽणि पुन!नि प्रत्ययो भविष्यतीति, यतोऽत्रैव वृद्धापत्यविवक्षायां तु लोहितादिपाठात् यत्रवेत्युक्तम् ।
माणवः कुत्सायाम् ।। ६. १. ९५ ॥ __ माणव इति मनुशब्दस्यौत्सगिकेऽण्प्रत्यये कुत्सायां गम्यमानायां नकारस्य णकारादेशो निपात्यते । मनोरपत्यं कुत्सितं मूढं माणवः ।९५।