________________
लिङ्गानुशासनम्
[
49
चञ्चेव चञ्चा पुरुषः, अत्र समतया आरोपः, एवमन्येष्वप्यारोपेषूदाहार्यम् । अस्त्रीति किम् ? धवनाम्नो योगात्तद्भार्यायामध्यारोपे आश्रयलिङ्गतैव, प्रष्ठस्य भार्या स एवेयमित्यभेदोपचारेण प्रष्ठी, एवं भवान्यादयोऽपि ।। १ ।।
प्रकृतेलिङ गवचने बाधन्ते स्वार्थिकाः क्वचित् ।
प्रकृतिहरीतक्यादिर्न लिङगमतिवर्तते ॥ २ ॥ स्वार्थे प्रकृत्यर्थे भवन्ति इति स्वाथिका , ते च क्वचिल्लक्ष्यानुसारेण प्रकृतेलिङ्ग वचनं च बाधन्ते, बाधिते च लिङ्ग बहुलं लिङ्गव्यवस्था, संदिष्टा वाक् वाचिकं, विनय एव वैनयिक, उपाय एव औपयिकम्, योग्ये त्वाश्रयलिङ्गता, वृत्तिरेव वार्तिकं, ह्रस्वा शुण्डा शमी वा शुण्डारः शमीरः, क्वचिदनुवर्तते, राज्ञो धूः राजवुरा, मृदेव मृत्तिका मृत्सा मृत्स्ना, क्वचिद्विकल्पः, ईषदपरिसमाप्तो गुडो बहुगुडो बहुगुडा वा द्राक्षा, प्रकृतिलिङ्ग प्रतिपत्तिव्युदासार्थं वचनं, हरीतक्यादिका प्रकृतिः प्रत्ययार्थे वर्तमानापि प्रकृत्यर्थलिङ्गनातिक्रामति, हरीतक्या: विकारोऽवयवो वा हरीतकी हरीतक्यौ हरीतक्यः फलानि, एवं पिप्पल्यादयोऽपि । मल्लिकाया विकारोऽवयवो वा पुष्पं मल्लिका, एवं मालती यूथिका मागधी नवमालिकादयोऽपि ।। २।।
वचनं तु खलतिकादिर्बह्वर्थात्येति पूर्वपदभूता।
स्त्रीपुनपुंसकानां सहवचने स्यात् परं लिङगम् ॥ ३॥ खलतिकादिका प्रकृतिर्वचनमेव नातिकामति, लिङ गं तु अतिक्रामति । तुरेवार्थे, खलतिको नाम पर्वतस्तस्यादूरभवानि खलतिकं वनानि, बहुविषया प्रकृतिः पञ्चालादिका पूर्वपदभूता सती स्वगतं वचनमतिकामति । 'अस्त्र्यारोपाभावे' इत्यस्यापवादः, पञ्चालाश्च निवास: मथुरा च पञ्चालमथुरे। स्त्रीपुनपुसकानामिति स्त्रीपुनपुसकलिङ्गानां सहवचने परं पुलिङ गं नपुसकलिङ गं वा भवति, स्त्रीपुसयो: सहवचने पुलिङ गं भवति । सा च स च तौ, स च शाटी च तौ, स्त्रीनपुसकयोर्नपुंसकम्, सा च वस्त्रं च ते, पुनपुसकयोर्नपुसकं, स च तच्च ते, स्त्रीपुनपुसकानां नपुंसकं, सा च स च तच्च तानि ।। ३ ।।
नन्ता संख्या डतियुष्मदस्मच्च स्युरलिङ गकाः । पदं वाक्यमव्ययं चेत्यसंख्यं च तद्बहुलम् ॥ ४ ॥ निःशेषनामलिङ गानुशासनान्यभिसमीक्ष्य संक्षेपात् । प्राचार्यहेमचन्द्रः समदृभदनुशासनानि लिङ गानाम् ॥ ५ ॥