________________
लिङ्गानुशासनम्
[ 29
नाभिः प्राण्यङ्गके प्रधिर्नेमा क्वचन बलिगृहे कुटः । श्रोण्योषध्योः कटो भ्रमो मोहे पिण्डो वृन्दगोलयोः ॥ २ ॥
प्राण्यङ्ग वाच्ये नाभिशब्दः स्त्रीपु सलिङ्गः, अयं नाभिरियं नाभि: प्राण्यङ्गविशेषः, नेमौ चक्रधारायां वाच्यायां प्रधिः, अयमियं वा प्रधिः क्वचनार्थविशेषं बलिशब्द: स्त्रीपुंसलिङ्गः, बवयोरंक्येन निर्देश:, प्रयमियं वा बलिः उपहारः त्वग् मांससंकोचश्च जठरावयवश्च, गृहे वाच्ये कुट शब्द:, कुटः कुटी, घटे हलाङ्ग े च पुक्लीब:, श्रोरणावौषधि विशेषे च कटः पु ंस्त्रीलिङ्गः, कट: कटी श्रोणिः कटः कटा श्रौषधिः, मोहे अज्ञानविशेषे च भ्रमः पुंस्त्री, भ्रमः भ्रमी प्रज्ञानविशेषे संदेहे भ्रमणे च, वृन्दे सक्त्वादीनां गोले च वाच्ये पिण्डः पुंस्त्री, पिण्डः पिण्डो वृन्दं गोलकश्च ।। २ ।।
भकनीनिकयोस्तारो भेऽश्लेषहस्तश्रवणाः ।
करणः स्फुलिङ्गे लेशे च वराटो रज्जुशस्त्रयोः ॥ ३ ॥
भे नक्षत्रे कनीनिकायां तारकायां च तारशब्दः स्त्रीपुं सलिङ्गः, तारस्तारा नक्षत्रं कनीनिका च भे नक्षत्रविशेषे प्रश्लेषहस्तश्रवणाः स्त्रीपुंसलिङ्गाः अश्लेष : अश्लेषा, हस्तो हस्ता, श्रवणः श्रवरणा नक्षत्राणि । स्फुलिङ्ग लेशे च वाच्ये करणः स्त्रीपु सलिङ्गः, करणः करणाः स्फुलिङ्गो लेशश्च वराटः वराटा रज्जुशस्त्रविशेषौ अन्यत्र तु कपर्दे श्वेतना मत्वात् पु ंस्त्वमेव ।। ३ ।।
कुम्भः कलशे तरणिः समुद्रार्कांशुयष्टिषु ।
भागधेयो राजदेये मेरुजम्ब्वां सुदर्शनः ॥ ४ ॥
कलशे वाच्ये कुम्भः पु ंस्त्री, कुम्भ: कुम्भी कलशः, अन्यत्र तु यथाप्राप्तं, गुग्गुलौ बाहुलकान्नपुंसकत्वम् । प्रयमियं वा तरणिः समुद्रः, अर्क, अंशुः पतितगोरूपोत्थापनी यष्टिश्च अन्यत्र तु लिन्मिन्यनिण्यरिणस्त्रयुक्ताः इति स्त्रीत्वमेव । भागधेयो भागधेय राजदेयः करः, मेरुजम्ब्वां सुदर्शनशब्दः स्त्रीपु सलिङ्ग । सुदर्शन: सुदर्शना मेरुजम्बू :, अन्यत्र तु विष्णुचक्रे शक्रपुरे च प्रतिपदपाठात् पुंस्त्वमेव ।। ४ ।।
करेरण र्गजहस्तिन्योरल्याख्यापत्यतद्धितः ।
लाजवस्त्रदशौ भूम्नीहाद्याः प्रत्यय भेदतः ।। ५ ॥
गजे हस्तिन्यां च वाच्ये करे : स्त्रीपु सलिङ्गः, अयमियं वा करे गुः गजः हस्तिनी च, अभ्रं मरस्याख्या पुंस्त्री, प्रयमलिः, इयमलिः एवमली अलिनी, भृङ्गः भृङ्गी इत्यादि । देहिनामत्वात् पुंस्त्वे प्राप्ते योनिमन्नामत्वा भावाच्च स्त्रीपुंसार्थं वचनम्, अपत्येऽर्थे जातस्तद्धितस्तदन्तं नाम पुंस्त्रीलिङ गं, अयमौपगवः इयमौपगवी, एवं बैदः, बैदी, गार्ग्यः, गार्गी इत्याद्यपि । श्राश्रयलिङ्गत्वमपीति कश्चित्, प्रौपगवः ना, प्रौपगवी