________________
28 ]
श्री सिद्ध हेमचन्द्रशब्दानुशासने
गव्यादिक्षीरविकारश्च । अथ सान्ताः साध्वसं भयं महानसं पाकस्थानं. साहसं दुष्करकर्मवैयात्यमविमृश्यकारिता दमश्च कासीसं धातुविशेषः - प्रर्थप्राधान्यात् धातुकासीसं धातुशेखरमपि । मत्सं सन्धिस्थानं, तरसं मांसं अर्थप्राधान्यात् उत्तप्तं शुष्कमांसं, यवसमश्वादिघासः, बिसं पद्मकन्दः ।। २३ ।।
मन्दाक्षवीक्षमथ सक्थि शयातु यातु,
स्वाद्वाशु तुम्बरु कशेरु शलालु चालु । संयत्ककुन्महदहानि पृषत्पुरीतत्
पर्वारिण रोम च भसच्च जगल्ललाम ।। २४ ।। ॥ इति नपुंसकलिङ गं समाप्तम् ॥
शलालु गन्धद्रव्यं,
मन्दाक्षं लज्जा शूका च वीक्षं विस्मयः दृश्यं च सक्थि ऊरु : 'इत्तु प्राण्यङ्ग' (स्त्रीलिङ्ग - श्लोक ४) इति स्त्रीत्वप्राप्तौ वचनं । अथोदन्ताः शयातु अजगर, यातु राक्षसः, स्वादुः पयः, प्राशु शीघ्र तुम्बरु प्रौषधिविशेषः, उकारान्तत्वात् पुंस्त्वे प्राप्ते वचनं, कसेरु कन्दविशेषः, पृष्ठास्थि च अर्थप्राधान्यात् गाङ्ग ेयमपि । आलु कन्दविशेषः । अथ व्यञ्जनान्ताः संयत् संग्रामः ककुत् वृषस्कन्धः, महत् राज्यं बुद्धितत्त्वं च यं पुंस्यपि, महान् प्रकृतिः, अहदिनं, पृषत् बिन्दुः दर्शप्रतिपदोः सन्धिः, ग्रन्थिप्रस्तावयोरपि पर्व क्लीबमाहवे च रोम तनूरुहं, रोमरणी इति द्विवचनं, मन्नन्तत्वेनैव सिद्धे कर्त्रर्थं वचनं भसदास्यं जघनमामाश्रयस्थानं, दकारान्तोऽयं जगत् विश्वं । ललाम ध्वजादौ रम्ये च, ललामस्य तु पुन्नपु सकत्वम् ।। २४ ।। इति नपुंसकलिङ्गम् ।
पुरोतत् प्रन्त्रं, पर्व विषुवत् प्रभृतिष्वपि, पुंस्यपि कश्चित् ।
पुंस्त्रीलिङ्गं चतुर्दशके, शङ्कुनिरये च दुर्गतिः । दो ले कक्ष प्राकरे गञ्जो भूरुहि बारणपिपलौ ॥ १ ॥ चतुर्दशके स्थाने वर्तमान: शङ कुशब्दः स्त्रीषु सलिङ्गः, श्रयमियं वा शङ्कुः । एकं दशं शतं तस्मात् सहस्रमयुतं ततः परं लक्षम् । प्रयुतं कोटिमथार्बुदमब्जं खवं निखर्व च ॥ १ ॥ तस्मान्महासरोजं शङ्कु सरितां पति ततस्त्वन्त्यम् । मध्यं परार्धमाहुर्यथोत्तरं दशगुणं तज्झाः ।। २ ॥
निरये वाच्ये दुर्गतिशब्दः स्त्रीपुंसलिङ्गः, प्रयमियं वा दुर्गतिः, भुजमूलेऽभिधेये कक्षशब्दः स्त्रीषु सलिङ्गः, कक्षः कक्षा दोर्मूलं, श्राकरे वाच्ये गजः स्त्रीपु सलिङ्गः, गञ्जः गखा आकरः, भाण्डागारे तु पुंनपुंसकत्वमसुरालये तु स्त्रीत्वं प्रतिपदपाठेनोक्त, भूरुहि वृक्षे वाच्ये बाणपिष्पलशब्दौ स्त्रीपु सकौ, बागः बारणा झिण्टी, पिष्पलः पिष्पली अश्वत्थः, वस्त्रच्छेदनोपकरणे प्रतिपदपाठात् पुंनपुंसकत्वं, जले तु तन्नामत्वान्नपुंसकत्वम् ।। १ ।।