________________
लिङ्गानुशासनम्
[ 15
जङ्घाऽङ्गविशेषः, चञ्चा तृणमयः पुरुषः, कच्छा कच्छोटिका. अर्थप्राधान्यात् कच्छाटिकाऽपि, पिच्छा काश्चिकं, पिञ्जा तुलं, गुखा पटहः, खजा मन्थ: दविश्च, अर्थप्राधान्यात खजाकाऽपि, प्रजा लोकः, झञ्झा सशीकरो मेघवात:, घण्टा वाद्यविशेषः, अर्थप्राधान्यात् किङ्गिणीक्षुद्रघण्टिकेऽपि, जटा कचविकारः, घोण्टा बदरीफलं, पोटा शण्डः, अर्थप्राधान्यात् तृतीयाप्रकृतिरपि, भिस्सटा दग्धिका, छटा समूहविशेष ॥ १४ ।।
विष्ठा मञ्जिष्ठया काष्ठा पाठा शुण्डा गुडा जडा।
बेडा वितण्डया दाढा, राढा रीढाऽवलीढया ॥१५॥
विष्ठा पुरीषं, मञ्जिष्ठा रागद्रव्यविशेषोऽअर्थप्राधान्यात् अरुणाऽपि, काष्ठा मर्यादा, पाठा औषधविशेषः, शुण्डा करिहस्तः, गुडास्नुही, गुडिकापि च, जडा शूकशिम्बी, बेडा नौः, वितण्डा वादभेदः, दाढा दंष्ट्रा, राढा शोभा, रीढा अवहेला, अवलोढाऽपि ।। १५ ॥
घृणोर्णा वर्वणा स्थूणा दक्षिणा लिखिता लता।
तृणता त्रिवृता त्रेता, गीता सीता सिता चिता ॥ १६ ॥ घृणा निन्दा, ऊर्णा मेषरोम, वर्वणा मक्षिका, स्थूणा गृहादीनामुत्तम्भनकाष्ठं, दक्षिणा यज्ञदानं, लिखिता लिपिः, तृणता चापं, त्रिवृता औषधिः, अर्थप्राधान्यादरुणादयोऽपितत्पर्यायाः, त्रेता युगविशेषः, गीता शास्त्रविशेषः, सीता लाङ गलपद्धतिः, सिता शर्करा, अर्थप्राधान्यात् कठिन्यपि, चिता मृतकदाहाय काष्ठशय्या ।। १६ ।।
मुक्ता वार्ता लताऽनन्ता, प्रसृता माजिताऽमृता।
कन्था मर्यादा गदेक्षुगन्धा गोधा स्वधा सुधा ॥ १७ ॥ मुक्ता मौक्तिकं, वार्ता, वृत्तिः, लूता ऊर्णनाभः, अनन्ता दूर्वा, प्रसृता जङघा, माजिता शिखरिणी, अर्थप्राधान्यात् मजिता शिखरिण्यावपि, अमृता पथ्या गुडूची च, कन्था स्यूतजीर्णवस्त्रपावरणम्, मर्यादाऽवधिः, गदा प्रहरणविशेषः, इक्षुगन्धा कोकिलाक्षे गोक्षुरकाशक्रोष्ट्रीषु, गोधा दोस्त्राणं प्राणिविशेषश्च पुध्वजोऽपि, गोधान्तत्वात् तृणगोधा कृकलासः, स्वधा पितृदानार्थो मन्त्रविशेषः, सुधा पीयूषं लेपनं च ।। १७ ।।
सास्ना सूना धाना पम्पा, झम्पा रम्पा प्रपा शिफा।
कम्बा भम्भा सभा हम्भा, सीमा पामारुमे उमा ॥ १८ ॥
सास्ना गोगलचर्म, सूना घातस्थानं, धाना भ्रष्टयवोऽङ कुरश्च, पम्पा सरोवरविशेषः, झम्पा उच्चादधः पतनम्, रम्पा चर्मकृदुपकरणं, प्रपाऽम्बूशाला,-अकर्तरि कः स्यादिति पूस्त्वे प्राप्तेऽस्य पाठः। शिफा तरुजटा, कम्बा कम्बिः, भम्भा भेरी, सभा वन्दं सभासदश्च, हम्भा गोध्वनिः अर्थप्राधान्याद् रम्भाऽपि, सीमा मर्यादा पामा कण्डः अर्थप्राधान्याद् विचिकाऽपि, रुमा लवणाकरः, उमा कीतिः ।। १८ ।।