________________
लिङ्गानुशासनम्
[
7
विष्णोरनुजश्च, अगद औषधम्, मकरन्दः पुष्परसः, अर्थप्राधान्यान्मरन्द इति, जनपदो जनसमूहो विषय: करदश्च कुटुम्बी, अगदजनपदयोभैषजनामपदान्तत्वाभ्यां नपुंसकत्वे प्राप्ते पाठः ।
अथ धान्ताः 'गन्धो गन्धक प्रामोदे लेशे संबन्धगर्वयोः' स्कन्धः 'प्रकान्डेंऽशे नपे स्कन्धः काये व्यूहसमूहयो:' । अगाधः विरलम्, बिलनामत्वादेव क्लीबत्वे प्राप्तेऽस्य पाठः ।। विरं छन्दः ।। १० ।।
अर्धसुदर्शनदेवनमह्नाभिजनजनाः परिघातनफेनौ।
पूपापूपौ सूपकलापौ रेफः शोफः स्तम्बनितम्बौ ॥ ११ ॥ अर्धः खण्डम्, ग्रामाः, अधः पटी, अर्धः नगरम्, समांशे तु क्लीबत्वस्य वक्ष्यमाणतया विषमांशवत्तिरिहाधशब्दः। अथ नान्ताः सप्त, सुदर्शन : विष्णुचक्रं शक्रपुरं च, मेरुजम्ब्वां स्त्री पुसलिंगः, देवनः अक्षः, क्रीडाविहारविजिगीषासु नान्तत्वान्नपुसकत्वमेव । अह्न इति ‘संख्यात' [७.३.११६] इति 'सर्वांश' [७.३.११८] इति च कृतसमासान्तोऽहन् शब्दः, संख्याताह्नः, सर्वमहः सर्वाः, पूर्वमह्नः, पूर्वाह्नः, एवं सायाह्नः, प्रारम्भो मध्ये चाह्नः प्राणः मध्याह्नः, अपराह्णस्तु पुक्लोबः, परवल्लिङ गतापवादोऽह्नस्य पाठः, अभिजनः कुले ख्याताव भिजनो जन्मभूम्यां कुलध्वजौ । जनः लोकः, परिघातनः अयोबद्धो लगुडः, फेनः डिण्डोरः, अर्थप्राधान्यादब्धिकफ इत्यपि। अथ पान्ताश्चत्वारः पूपोऽपूपश्च गुणभेदः सूप: मुद्गादिविकारः सूपकारे देहिनामत्वादेव सिद्धम्, अर्थप्राधान्यात् सूद इत्यपि, पूपादीनां नपुसकत्वे प्राप्तेऽस्य पाठः, 'कलापःसंहतौ बर्हे काञ्च्यां भूषणतूणयोः', पिच्छनामत्वान्नपुसकत्वेऽस्य पाठः ।
अथ फान्तो। रेफोऽवद्यम्, वर्णविशे ये तु विषयनामत्वेनैव पुस्त्वम्, शोफः श्वयथुः । अथ बान्ताः स्तम्बः पालानं व्रीह्यादीनां प्रकाण्डविशेषश्च, तत्र चार्थप्राधान्याद् गुच्छोऽपि, नितम्बः 'स्त्रियाः पश्चात् कटौ, सानौ नितम्बः कटरोधसोः' ।। ११ ।।
शम्बाम्बौ पाञ्चजन्यतिष्यौ पुष्यः सिचयनिकाय्यरात्रवृत्राः । मन्त्रामित्रौ कटप्रपुण्डाराः कल्लोलोल्लौ च खल्लतल्लौ ॥ १२ ॥
शम्ब: मुसलाग्रस्थो लोहमण्डलकः, अशनौ तु तन्नामत्वादेव पुस्त्वं, अम्बः सरकादीनाम्, अथ यान्ताः । पाञ्चजन्यो विष्णोः शङ्खः पोटगलश्च, तिष्य: पुष्यश्च कलियुगं, नक्षत्रे बहुलं नक्षत्रेत्यनेन मास विशेषे तु मासनामत्वादेव पुस्त्वम्, सिचयो वस्त्रम्, अंशुकनामत्वेन क्लीबत्वे प्राप्तेऽस्य पाठः । निकाय्यो निवासः ।।
__ अथ रान्ता: रात्र इति कृत समासान्त: 'संख्याक' [७.३.११६] इति 'ऋक्साम' [७.३.६७] इति च रात्रि शब्दः । पुण्यारात्रिः पुण्यरात्रः, वर्षा रात्रः, दीर्धरात्रः, चिररात्रः, पूर्वरात्रः, अपररात्र:, अर्धरात्रः, अहोरात्राविमौ, एकात् समाहारे च पुक्लीबः,