________________
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ४ सू० १२२ ] इतश्च
निर्वीराधनमुक्तिशास्त्ररचनाभीवावधोत्सर्पणाश्रीकौमारविहारमण्डितमही, भूपप्रबोधादिका । क्षीरोदोदधिमुद्रितेऽवनितले, यस्योर्जिताः केलयः, सोऽभूत्तीर्थकरानुकारिरचनः (चरितः) श्रीहेमचन्द्रो गुरुः ॥३॥ भूपालमौलिमाणिक्य,-मालालालितशासनः । दर्शनषट्कनिस्तन्द्रों हेमचन्द्रो मुनीश्वरः ॥४॥ तेषामुदयचन्द्रोऽस्ति, शिष्यः संख्यावतां वरः। यावज्जीवमभूद्यस्य, व्याख्याज्ञानामृतप्रपा ॥५॥ तस्योपदेशाद् देवेन्द्रसूरिः शिष्यलवो व्यधात् । न्याससारसमुद्धारं, मनीषी कनकप्रभः ॥६॥
तद्धितावचूर्णिका समाप्ता ।
" इति लघुन्यासप्रशस्तिः” ये तु शास्त्रे सूचिता लोकसिद्धाश्च न्याया न तदर्थं यत्नः क्रियते । स्वं रूपं शब्दस्याशब्दसंज्ञा ।१। सुसद्धिदिक्शब्देभ्यो जनपदस्य ।। ऋतोद्धिमद्विधाववयवेभ्यः ।३। स्वरस्य इस्वदीर्घप्लुताः ।४। आद्यन्तवदेकस्मिन् ।५। प्रकृतिवदनुकरणम् ।६। एकदेशविकृतमनन्यवत् ।७। भूतपूर्वकस्तद्वदुपचारः।८। भाविनि भूतवदुपचारः।९। यथासंख्यमनुदेशः समानानाम् ।१०। विवक्षातः कारकाणि ।११। अपेक्षातोधिकारः ।१२। अर्थवशाद्विभक्तिपरिणामः । अर्थवद्ग्रहणे नानर्थकस्य (ग्रहणम्) ।१४। लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव (ग्रहणम्) ।१५। नामग्रहणे लिङ्गविशिष्ट स्यापि ॥१६॥ प्रकृति ग्रहणे यङ्लुबन्तस्यापि ।१७। श्तिवा शवाऽनुबन्धेन निर्दिष्टं यदणेन च । एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि ।१८। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य ।१९। असिद्धं बहिरङ्गमन्तरङ्गे ।२०। न स्वरानन्तर्ये ।२१। गौणमुख्ययोमुख्य कार्यसंप्रत्ययः ।२२। कृत्रिमाकृत्रिमयोः कृत्रिमे ।२३। क्वचिदुभयगतिः ।२४। सिद्धे सत्यारम्भो नियमार्थः ।२५। धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम् ।२६। नञ्युक्तं तत्सदृशे ।२७। उक्तार्थानामप्रयोगः ।२८। निमित्ताभावे नैमित्तिकस्याप्यभावः।२९। संनियोगशिष्टानामेकापायेऽन्यतरस्याप्यपायः।३०। नान्वाचीयमाननिवृत्तौ प्रधानस्य।३१। निरनुबन्धग्रहणे न सानुबन्धकस्य ।३२एकानुबन्धग्रहणे न व्यनुबन्धकस्य ।३३। नानुबन्धकृतान्यसारूप्यानेकस्वरत्वानेकवर्णत्वानि ।३४। समासान्तागमसंज्ञाज्ञापकगणन निष्टिान्य