________________
[पाद. ४. सू. ११४-११५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३९९ भवति, इह शास्त्रे धात्वादिः समुदायोऽभेदेनाब यवविशेषणक उपादीयते । तत्र सोऽवयवस्तत्समुदायस्यान्तत्वेन नियम्यते । अतः स्यमोऽम् । कुण्डं तिष्ठति, कुण्ड पश्य, इह न भवति-तद् । 'युवर्ण वृदृवशरणगमृद्ग्रहः' । जयः, स्तवः, इह न भवति । सेकः, योगः । इणोऽलि अय इत्यादौ व्यवदेशिवभावाद्भवति ।११३। __न्या० स० विशे०-इह शास्त्रे धात्वादिः समुदाय उपादीयते, कथंभूतोऽवयवो विशेषणं यस्य स तथा केनाभेदेन तादात्म्येन कोऽभिप्रायः ? किल 'नामिनो गुण' ४-३-१ इत्यत्र धातु म त्यभिधीयते, नाम्यवयवयोगात् समुदायोऽपि धातुलक्षणो नामीत्यभिधीयते इत्येकदेशेन सामानाधिकरण्येनावयवविशेषणक उपादीयते इति तत्सामानाधिकरण्ये सति नामी आदी मध्ये अन्ते च संभवति, तत्र सोऽवयवस्तस्य समुदायस्य अन्तत्वेन नियम्यते ।
सप्तम्या आदिः ॥ ७. ४. ११४ ।।
सप्तम्यन्तस्य विशेष्यस्य यद्विशेषणं तत्तस्यादिरवयवो भवतीति वेदितव्यम् । इन् डीस्वरे लुक् । पथः, पथाम् । इह न भवति । पथिषु । 'ब्युक्तोपान्त्यस्य शिति स्वरे' (४-३-१४) नेनिजानि । अनेनिजम् । इह न भवति-नेनेक्ति । * उत औविति व्यञ्जनेऽद्वेः' (४-३-५९) यौति, रौति । इह न भवति अस्तवीत् । पथा, अयौदित्यादौ व्यपदेशिवद्भावाद्भवति,-अन्तत्वापवादो योगः ।११४।
प्रत्ययः प्रकृत्यादेः ॥ ७. ४. ११५ ॥ ___ यस्माद्यः प्रत्ययो विधीयते सा तस्य प्रकृतिः। प्रत्ययः प्रकृत्यादेः समुदायस्य विशेषणं वेदितव्यम् नोनाधिकस्य । मातुर्भोगो मातृभोगस्तस्मै हितो मातृभोगीणः । 'भोगोत्तरपदात्मभ्यामीनः' (७-१-४०)। खरपस्यापत्यं खारपायणः,-नडादित्वादायनण् । अत्र 'तदन्तं पदम् ' (१-१-२०) इति पदसंज्ञा समुदायस्य भवति न तूनस्य भोगीण इत्यादिरूपस्य तेनैकपदत्वात् णत्वं सिद्धम् । राज्ञः पुरुषः राजपुरुषः, षष्ठययत्नाच्छेषे' ( ३-१-७६) इति समासः । अधिकस्य न भवति । ऋद्धस्य राज्ञः पुरुषः, गार्यस्यापत्यं गाायणः ।। 'यनिञः' (६-१-५४) इत्यायनण् । अधिकारसमुदायान्न भवति । परमगार्ग्यस्यापत्यम् । पुत्रमिच्छति पुत्रकाम्यति, अधिकान्न भवति, महान्तं पुत्रमिच्छति, न्यूनाधिकव्यवच्छेदार्थं वचनम् । तदन्तत्वं च 'विशेषणमन्तः' (७-४-११३) इत्येव सिद्धम् ।११५॥
___ न्या० स० प्रत्य० प्रकृत्यादेरिति आदिशब्दात् प्रत्ययो गृह्यते, ततः प्रकृतिप्रत्ययसमुदायस्य प्रत्ययो विशेषणं भवतीति सिद्धम् ।