________________
[पाद. ४. सू. ९९-१०० ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ ३८९ पदस्य संबन्धी गुरुर्वानन्त्योऽपि ऋकारजितः स्वर लकारश्चैको दूरादामन्यस्यैव संबन्धी स प्लुतो वा भवति । आगच्छ भो माणव कपिलक ३, आगच्छ भो माणव कपिलक । आगच्छ भो देवदत्त ३, आगच्छ भो देवदत्त । आगच्छ भो इन्द्रभूते ३, आगच्छ भो इन्द्रभूते । आगच्छ भोः क्लुप्तशिख ३, आगच्छ भोः क्लृप्तशिख । गुरुवैकोऽनन्त्योऽपि लनृत, सक्तून् पिब दे ३ वदत्त । सक्तून् पिब देवदत्त । आगच्छ भो इ ३ न्द्रभूते, आगच्छ भो इन्द्रभू३ ते । आगच्छ भो न ३षभ, आगच्छ भो नृषभ । आगच्छ भोः क्ल३प्तशिख, आगच्छ भोः क्लुप्तशिख । महाविभाषयैव प्लुत विकल्पे सिद्धे वाग्रहणं न विकल्पार्थं किंत्वन्यप्लुतेन सह गुरोः असमावेशार्थम् । तेन क्ल ३ प्तशिख ३ इति न भवति । दूरादिति किम् ? शृणु देवदत्त । आमन्न्यस्येति किम् ? आगच्छतु देवदत्तः। प्रधाने कार्यसंप्रत्ययादिह न भवति । आगच्छ भोः कपिलक माणव,-अत्र माणवेति कपिलक इत्यस्य विशेषणमित्यप्रधानता । गरुरिति किम् ? अनन्त्यस्य लघोर्मा भूत् । एक इति किम् ? अनेकस्य गुरोर्योगपद्येन मा भूत् । अनन्त्योऽपीति किम् ? अन्त्यस्यैव मा भूत्, लकारग्रहणमनदिति प्रतिषेधनिवृत्त्यर्थम् । अथ ऋतः प्रतिषेधे लकारस्य कः प्रसङ्कः ? उच्यते,-इदमेव ज्ञापकमवर्णग्रहणे लवर्णस्यापि ग्रहणं भवतोति, तेनाचीकलपदित्यादौ ऋवर्णकार्यम् लवर्णस्यापि सिद्धं भवति । अनूदिति किम् ? कृष्णमि ३ स्त्र । कृष्णमित्र ३ । अनृदिति गुरुविशिष्यते न स्वरेष्वन्त्यस्तेनेहापि भवति । आगच्छ भोः कर्तृ ३, आगच्छ भोः कर्तृ । वाक्यस्य स्वरेष्वन्त्यः प्लुत इत्यनुवृत्तेरिह न भवति । देवदत्त अहो आगच्छ, अभिपूजितेऽपि दूरादामन्त्र्यस्यैव प्लुत इष्यते इति अभिपूजिते चेति नारम्भणीयम्, शोभनः खल्वसि माणवक ३ । शोभनः खल्वसि माणवक ।९९।
न्या० स० दूरा० ऋकारवर्जित इति गुरोरेव विशेषणम् । ऋकारवर्जितः स्वर लकारश्चेति । असमावेशार्थमिति तेन यदान्त्यस्य प्लुतस्तदान्त्यस्येव न तु गुरोः, यदा तु गुरोस्तदा गुरोरेव न त्वन्त्यस्येत्यर्थः । ऋवणकार्यमिति-लुवर्णस्येति 'ऋत्तोऽत्' ४-१-३८ इत्येवंविधम् ऋवर्णस्य इत्यनेन लकारस्यापि मध्ये गुणबाधनार्थम् लकारः। हे हैष्वेषामेव ॥ ७. ४. १०० ॥
दूरादामन्त्र्यस्य संबन्धिनौ यौ हेहैशब्दो को च तौ यौ तदामन्त्रणे वर्तेते तयोः प्रयुज्यमानयोस्तयोरेव वाक्ये यत्रतत्रस्थयोरन्त्यः स्वरः प्लुतो वा भवति । हे ३ देवदत्त आगच्छ, आगच्छ हे ३ देवदत्त, आगच्छ देवदत्त हे