________________
३८८ ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ४ सू. ९६-९९ ] ओमःप्रारम्भे ॥ ७. ४. ९६ ॥
प्रारम्भे प्रणामादेरभ्यादाने वर्तमानस्य ओमशब्दस्य स्वरेष्वन्त्यःस्वरः प्लुतो वा भवति । ओ ३ म् ऋषभं पवित्रम्. ओमृषभं पवित्रम्, एवम् ओ ३ म ऋषभमृषभगामिनं प्रणमत २। ओ ३ म् अग्निमीले पुरोहितम् । प्रारम्भ इति किम् ? ओं ददामि । ओमत्राभ्युपगमे ।९६।"
न्या० स० ओमः- प्रणामादेरिति ओम् इत्यस्य प्लुतविधानात् प्रणामादेरेव प्रारम्भो गम्यते । हेः प्रश्नाख्याने ॥ ७. ४. ९७ ॥
प्रश्नस्याख्याने पृष्टप्रतिवचने वर्तमानस्य वाक्यस्य स्वरेष्वन्त्यः स्वरो हिशब्दसंबन्धी प्लुतो वा भवति । अकार्षीः कटं देवदत्त, अकार्ष हि ३, अकार्ष हि । अलावीः केदारं देवदत्त, अलाविषं हि ३ । अलाविषं हि । हेरिति किम् ? अकार्षीः कटं देवदत्त, करोमि ननु । प्रश्नग्रहणं किम् । कटं देवदत्ताकार्षं हि । अप्रश्नपूर्वक आख्याने न भवति । आख्यानग्रहणं किम् ? देवदत्त कटमकार्षीहि । उत्तरेण सिद्धे नियमार्थं वचनम् । हेः प्रश्नाख्यान एव हेः प्रश्नाख्याने वाक्यस्य स्वरेष्वन्त्य एव प्लुत इति च ।९७।
न्या० स० हेः प्रश्ना०-नियमार्थमिति अत्र हेः प्रश्नाख्यान एवेति नियमेन देवदत्त कटमकार्षी_ति प्रश्ने प्लुतो निवर्त्यते, हेः प्रश्नाख्याने वाक्यस्य स्वरेष्वन्त्य एव प्लुत इत्यनेन तु अकार्ष हि कटमित्यनन्त्यस्य न भवति, एतन्नियमद्वयमुपलक्षणं हेरेव प्रश्नाख्याने वाक्यस्य स्वरेष्वन्त्यः स्वरः प्लुतो भवतीत्यपि नियमो द्रष्टव्यस्तेन करोमि नन्विति हि सजातीयस्य निपातान्तरस्य प्लुतो निवर्त्यते । अगमः ३ पूर्वा ३ न प्रामा ३ नित्यादावनिपातस्य विजातीयस्य भवत्येव । प्रश्ने च प्रतिपदम् ॥ ७. ४. ९८ ।।
प्रश्ने प्रश्नाख्याने च वर्तमानस्य वाक्यस्य संबन्धिनः पदस्य स्वरेष्वन्त्यः स्वरः प्लतो वा भवति । प्रश्ने, अगमः ३ पूर्वा ३ न ग्रामा ३ न देवदत्त ३, अगमः पूर्वान् ग्रामान् देवदत्त । प्रश्नाख्याने, अगम ३ म् पूर्वा ३ न ग्रामा ३ न जिनदत्त ३ । अगमम्पूर्वान् ग्रामान् जिनदत्त । प्रश्ने चेति किम् ? देवदत्त ग्रामं गच्छ । प्रतिपदमिति किम् ? वाक्यस्यैवान्त्यः स्वरः प्लुतो मा भूत् ।९८॥ दूरादामन्त्र्यस्य गुरुवैकोऽनन्त्योऽपि लनृत् ॥ ७. ४. ९९.।
यत्र प्राकृतात्प्रयत्नात्प्रयत्नविशेषे आश्रीयमाणे संदेहो भवति किमयं श्रोष्यति नवेति तद्रम् । वाक्यस्य यः स्वरेष्वन्त्यः स्वरो दूरादामन्त्र्यस्य