________________
१८ ]
बृहद्वृत्ति- लघुन्यास संवलिते
[ पाद. १ सू० ४०-४१ ] संघाद्यण् च न भविष्यति । पौत्रशब्दाच्चावृद्धप्रत्ययान्तत्वादञ्यणि च इञ् आयनिञ् च न भविष्यतीति विशेषाभाव एव केचित्तु पुनर्ध्वं इति लुमप्युदाहरन्ति तेषां पुनर्भूरिति गोत्रं तत्रेहाप्यस्ति विशेषः ||३९||
न्या० स० पुनर्भू - - यथा वैदमितीति बिदस्यापत्यानि बिदादेवृद्धेऽञ्, बिदानां संघादि बहुषु वर्तमानस्यानो न लुप् ' न प्राजितीये खरे ' ६-१-१३५ इति प्रतिषेधात्, ततो 'गोत्राददण्ड ' ६-३-१६९ इत्यकञ्बाधकः 'संघघोष ' ६-३-१७२ इत्यण् ।
ततोऽप्यपत्यविवक्षायामिति - आपातमात्रे पूर्वपक्षोऽयम्, अन्यथा 'वृद्धाद्यूनि' ६-१-३० इति वचनात् अनन्तराद्यूनि प्रत्ययो न स्यात् न च वृद्ध एव भविष्यतीति वाच्यं यतः आद्यात् ' ६-१-२९ इति सूत्रात्पुत्र इत्येवंरूपायाः परमप्रकृतेरेव स्यात् । किं च तदा 'निदार्षादणियोः लापो न स्यात्, तत्र युवप्रत्ययग्रहणात् ।
"
बैदः पुत्र इति चिदस्यापत्यं वृद्धं बिदादेर्बुद्धे अञ्, ६ - १ - ३१ ' निदार्षादणियोः ६-१-१४० इति लोपः ।
वैदस्यापत्यं युवा. अत इञ् '
कार्याणिरितीति कर्तुरपत्यं वृद्धं 'ङसोऽपत्ये ' ६-१-२८ अणू, कार्त्तस्यापत्यं युवा 'द्विस्वरादाण : ' ६-१-१०९ आयनिञ् अस्य च ब्राह्मणत्वात् ( अब्राह्मणात् ' ६-१-१४१
इति न लुप् ।
विशेषाभाव एवेति ननु तर्हि इञबाधकः पुत्रादनित्येव क्रियतां किं गुरुणा सूत्रेण, यतः शेषेभ्यः सामान्योऽण् अस्त्येव ? उच्यते, मताभिप्रायेण पुनर्भूपुत्रदुहितृ ननान्द्ग्रहणमिति दर्शितं, यतस्तन्मते दुहित्रादीनां पूर्वदर्शितं गोत्रे फलमस्तीति ।
परस्त्रियाः परशुश्चासावयै ॥ ६. १.४० ॥
परस्त्रीशब्दादनन्तरेऽपत्येऽञ् प्रत्ययो भवति तत्संनियोगे परस्त्रीशब्दस्य परशुभावश्चासावर्ण्यं न चेत् पुरुषेण सह समानो वर्णो ब्राह्मणत्वादिस्तस्या भवति । परा पुरुषाद्भिन्नवर्णा स्त्री परस्त्री, तस्या अनन्तरापत्यं पारशवः । असावर्ण्य इति किम् ? परस्य स्त्री परस्त्री तस्या अनन्तरापत्यं पारस्त्रेणेयः । कल्याण्यादिपाठादेयण् अन्तस्य चेनादेशः, अनुशतिकादिपाठादुभयपद
वृद्धिश्च ॥४०॥
बिदादेर्वृद्धे ॥ ६. १. ४१ ॥
बिदादिभ्यो वृद्धेऽपत्येऽर्थे अञ् प्रत्ययो भवति । विदस्यापत्यं वृद्धं बंदः, बैदौ, बिदा, और्वः, और्वो, उर्वाः, काश्यपः, काश्यपौ, कश्यपाः, भारद्वाजः, भारद्वाजौ, भरद्वाजाः । अथेन्द्रहूः सप्तमः काश्यपानाम् भारद्वाजानां कतमोsसीत्यत्र बहुषु लुप् कस्मान्न भवति । नायमञ् किंतु अस्येदम् इति विवक्षा - यामण्, सर्वेषामपि हि पितरोऽभेदोपचारेण कश्यपाः, यथा बभ्रुः मण्डुः लमक इति । वृद्ध इति किम् ? बिदस्यापत्यमनन्तरं बैदिः । बिद, उर्व