________________
[ पाद. १. सू. ३७-३९ । श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [१७ भवति सकारलोपश्चषाम् । भूयसोऽपत्यं भौयिः, एवं सांभूयिः, आम्भिः , आमितौजिः । भूयसो नेच्छन्त्यन्ये । अकतसोऽपीच्छन्त्येके आकतिः ॥३६।। शालझ्यौदिषाडिवाइवलि ॥ ६. १. ३७ ॥
शालङ्कि, औदि, षाडि, वाडवलि इत्येते शब्दा अपत्येऽर्थे इप्रत्ययान्ता निपात्यन्ते । शल कोरपत्यं शाङ्किः । अत्रे प्रत्यय उकारलोपश्च निपात्येते । उदकस्यौदिः, अत्रेञ् कलोपश्च । षष्णां षाडिः, अत्रेञ् अन्त्यस्य च डत्वम् । वाचं वदति वाग्वादस्तस्यापत्यं वाड्वलिः, अत्रेषि वाचोऽन्तम्य डत्वं वलभावश्चोत्तरपदस्य ॥३७॥ व्यासवरुटसुधातृनिषादबिम्बचण्डालादन्त्यस्य चाकू ॥ ६. १.३८ ॥
व्यासादिभ्योऽपत्येऽर्थे इञ् प्रत्ययो भवति तत्संनियोगे चैषामक् इत्ययमन्तादेशो भवति । व्यासस्यापत्यं वैयासकिः, वरुटस्य वारुटकिः, सुधातुः सौधातकिः, निषादस्य नैषादकिः, वृद्ध तु परत्वाद्विदादिलक्षणोऽन् । नैषादः, बिम्बस्य, बैम्बकिः, चण्डालस्य चाण्डालकिः, सुधातृव्यासाभ्यामणोऽपवादः । वरुटात् कारुञ्यस्यापवादः । शेषेभ्योस्त्येव । कर्मारव्याघ्राग्निशर्मभ्योऽपोच्छन्त्येके । कारकिः, वैयाघ्रकिः, आग्निशर्मकिः ॥३८॥ पुनर्भूपुत्रदुहितृननान्दुरनन्तरेऽञ् ॥६. १. ३९ ॥
पुनर्भू पुत्रदुहितननान्द इत्येतेभ्यो ङसन्तेभ्योऽनन्तरेऽपत्येऽर्थे अज प्रत्ययो भवति । पुनवा अनन्तरमपत्यं पौनर्भवः पौनर्भवौ, पौनर्भवाः, पौत्रः, दौहित्रः, नानान्द्रः । अनन्तर इति किम् वृद्धेऽञ् न भवति । अञो जित्करणमुत्तरार्थम्, इह तु सूत्रेऽभि अणि वा नास्ति बिशेषः । नन्वस्त्येव विशेषः, अनि हि 'यत्रोऽश्यापर्ण'-( ६-१-१२६ ) इत्यादिनाजो बहुषु लुप् स्यात् यथा बैदः, बैदी, बिदा इति, तथा संघादिष्वर्थेषु 'संघघोपाङ्क' ( ६-३-१७१) इत्यादिनानः परोऽण् स्यात् यथा बैदमिति, अणि तु तदुभयमपि न भवति यथोपगवाः औपगवकमिति । तथा पुत्रशब्दादप्रत्ययान्तात् ततोऽप्यपत्यविविक्षायाम् 'अत इन्' (६-१-३१) इतीजि 'जिदार्षादणियोः '(६-१-१४०) इति तस्य लुपि पौत्र इति स्यात् यथा बैद पिता, वैदः पुत्रः। अणि तु 'द्विस्वरादणः, (६-१-१०९) इत्यायनिम् स्यात् यथा काीयणिरिति ? उच्यते,-पुनधिपत्यस्यागोत्रत्वादोत्राधिकारविहिता लुप् सि. ३