SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ [ पाद. ३. सू. ९३-९६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [३३१ शरद्, त्यद्, तद्, यद्, कियत्, हिरुक, हिमवत्, उपसद्, सदस, अंदरे, अनस्, मनस्, विपाश्, दिश, दृश, विश, उपानह, अनडुह, चतुर् दिव् । अत्रापञ्चमवान्तपाठो नित्यार्थः । अव्ययीभावादित्येव । परमशरद् । ९२ । न्या० स० शरदा०—विपाशिति पाशं पाशाद् वा विमोचयति णिच् वसिष्ठं विपाशितवती 'विशिविपाशिभ्याम् ' ९५० ( उणादि) इति वा क्विप् । जराया जरम् च ॥ ७. ३. ९३ ॥ जराशब्दान्तादव्ययीभावसमासादत्समासान्तो भवति तत्संनियोगे च जराशब्दस्य जरसादेशः ।। उपजरसम् । प्रतिजरसम् । ९३। सरजसोपशुनानुगवम् ॥ ७. ३. ९४ ॥ ___ सरजस, उपशुन, अनुगव इत्येतेऽव्ययीभावा अदन्ता निपात्यन्ते । सह रजसा सरजसमभ्यवहरति । साकल्येऽव्ययीभावः, शुनः समीपे उपशुनं तिष्ठति । अत्र निपातनाद्वस्योत्वम् । गामन्वायतमनगवम् । 'दर्थेऽनः' (३-१-३४) इत्यव्यययीभावः, दैदिन्यत्र नं भवति । गवां पश्चादनेग यानम् । ६४। जातमहदद्धादुक्ष्णः कर्मधारयात् ।। ७. ३. ९५ ॥ जातमहद्वद्ध इत्येतेभ्यः परो य उक्षनशब्दस्तदन्तात्कर्मधारयादत्समासान्तो भवति । जातश्चासावक्षा च जातोक्षः, महोक्षः, वृद्धोक्षः । जातादिभ्य इति किम् ? परमोक्षा, उत्तमोक्षा। उक्ष्ण इति किम् ? महाश्मश्रु । कर्मधारयादिति किम् ? जातस्योक्षा जातोक्षा, महदुक्षा, वृद्धोक्षा । ९५ । स्त्रियाः पुंसो द्वन्द्वाच्च ॥ ७. ३. ९६ ॥ ___ स्त्रीशब्दात्परो यः पुम्स्शब्दस्तदन्ताद्वन्द्वात्कर्मधारयाचात् समासान्तो भवति । स्त्री च पुमांश्च स्त्रीपुस स्त्रीपुसौ स्त्रीपुसाः । कर्मधारयात स्त्री चासौ पुमांश्च स्त्रीपुसः शिखण्डौ, स्त्रीपुसं विद्धि राक्षसम् । द्वन्द्वाच्चैति किम् ? स्त्रिया: पुमान् स्त्रीपुमान् । ९६ । ऋक्सामय॑जुषधेन्वनडुहवाङ्मनसाहोरात्रगत्रिंदिवनक्तंदिवाहर्दि वोर्वष्ठीवपदष्ठीवासिभ्रवदारगवम् ॥ ७. ३. ९७ ॥ ऋक्सामादयो द्वन्द्वा अत्प्रत्ययान्ता निपात्यन्ते । ऋक् च साम च
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy