________________
३१६] बृहवृत्ति-लघुन्याससंवलिते [पाद. ३ सू. ३९-४० ]
उत्तरपदस्येति किम् ? देवदत्ता दत्ता, अत्र ' ते लुग्वा' (३-२-१०८) इति पूर्वपदस्य लुक् । अनुकम्पिता दत्ता दत्तिका, पूर्वेण कप् ।३८॥
लुक् चाजिनान्तात् ।। ७. ३. ३९॥
__ अजिनशब्दान्तान्मनुष्यनाम्नोऽनुकम्पायां गम्यमानायां कप्न् प्रत्ययो भवति तत्संनियोगे लुक् चोत्तरपदस्य । व्याघ्राजिनो व्याघ्रमहाजिनो वा नाम मनुष्यः सोऽनुकम्पितो व्याघ्रकः, एवं सिंहकः, शरभकः, वृककः, कृष्णकः, उलकः, अनुकम्पिता व्याघ्राजिना व्याघ्रमहाजिना वा व्याघ्रकाः, सिंहकाः । 'आतो नेन्द्रवरुणस्य' (७-४-२९) इत्यत्र ज्ञापनादकृतसंधेरेवोत्तरपदस्य लुक ।३९।
न्या० स० लक्चा०-पूर्वोत्तरपदस्य लुकि कपनि देवकः लुगभावे तु कपि देवदत्तकः एवं च रूपद्वयं स्यादिति, अत्र हि अजिनान्तादेव कग्नि नित्यं लुकि व्याघ्रक एवेति, अयमत्र भावः अजिनान्तस्यानुकम्पायां कप्न सन्नियोग एव लुक, तेन व्याघ्रजिनक इति न भवति । षड्वजैकस्वरपूर्वपदस्य स्वरे ॥ ७. ३. ४०॥
षट्छब्दवजितमेकस्वरं पूर्वपदं यस्य तत्संबन्धिन उत्तरपदस्यानुकम्पायां विहिते स्वरादी प्रत्यये लुग् भवति । उत्तरसूत्रस्यापवादः । अनुकम्पितो वागाशी: वाग्दत्तः वागाशीदत्तो वा वाचियः, वाचिकः, वाचिलः । एवं त्वचियः, त्वचिकः, त्वचिलः, स्रुचियः, सूचिकः, स्रुचिलः। षड्वजॅकस्वरपूर्वपदस्येति किम् ? उपेन्द्रेण दत्तः उपेन्द्रदत्तः, सोऽनुकम्पितः उपडः, उपकः, उपियः, उपिकः, उपिलः । उत्तरेण लक् । षड्वर्जेति किम् ? अनुकम्पितः षडङ्गलि:, षडियः, षडिकः, षडिलः । अत्रोत्तरेण द्वितीयस्वरादूर्ध्वं लोपः । तथा चावणेवर्णस्येत्यल्लुचः स्थानिवद्भावात्पदस्वस्यानिवृत्तेस्तृतीयत्व न निवर्तते । षड. वर्जनादेव च पदत्वे संधिविधावपि अल्लुकः स्थानित्वनिषेधो न भवति । स्वर इति किम् ? वागाशीकः वागाशीर्दत्तकः ।४०।
न्या० सषड्व० वाचिय इति नन्वत्र एकस्वरादूर्ध्व लोपे सति 'चजः कगम् । २-१-८६ इति कथं न भवति, यतोऽन्तर्वत्तिविभक्तिमाश्रित्य पदसंज्ञाऽस्ति ? उच्यते, यदि प्रत्यये पर. भावभाजि अन्तवर्तिनी विभक्तिमाश्चित्य पदसंज्ञा स्यात्तहिं सित्येवेति नियमान्न भवति पदत्वं, अथेत्थं भणिष्यन्ति सित्येवेति नियमस्तदा प्रवर्तते, यदा वागाशीर्दत्त एवंविधस्य प्राप्नोति किंचित् , यतः 'प्रत्ययः प्रकृत्यादेः' ७-४-११५ इति ? .
नैवं, यतः षड्वर्जनात् पूर्वपदस्यापि पदसंज्ञायां कर्तव्यायां सित्येवेति नियमः प्रवर्तते. यतोऽत्र पडिक इत्यादिसिद्ध्यर्थ षट् वर्जनं क्रियते, तच्च तदभावेऽपि सेत्स्यति, यतोऽनेन सूत्रणावगुलिलोपेऽपि 'प्रत्ययः प्रकृत्यादेः' ७-४-११५ इति परिभाषया पदत्वस्यानिवृत्तेः, यद् वाऽवयवसमुदाययोरभेदोपचारात् समुदायस्य विभक्तिरवयवात् द्रष्टव्या ततः सित्येवेति नियमः प्रवर्त्तते ।