________________
२७८ ]
बृहद्वृत्ति - लघुन्यास संवलिते
[ पाद. २ सू० ८७-८९ ] स्वरतो वर्णतो वा । पापहीयमानेनेति किम् । चारित्रेण शुद्धः । अकर्तुं रित्येव ? चैत्रेण हीयते । तृतीयाया इत्येव ? ग्रामे हीयते । क्षेपस्याविवक्षायां तत्त्वाख्याने यथा स्यादिति वचनम् ।८६
न्या० स० पाप पापहीयमानाभ्यां योगे क्षेपस्य प्रतीयमानत्वात् पूर्वेणैव सिध्यतीत्याहतत्त्वाख्याने इति ।
प्रतिना पञ्चम्याः ॥ ७. २.८७ १
प्रतिना योगे या पचमी विहिता तदन्तात्तसुः प्रत्ययो भवति वा ॥ अभिमन्युरर्जुनात्प्रति अभिमन्युरर्जुनतः प्रति । अर्जुनस्य प्रतिनिधिरित्यर्थः । माषातस्मै तिलेभ्यः प्रति यच्छति तिलतः प्रति यच्छति । पञ्चम्या इति किम् ? वृक्षं प्रति विद्योतते ॥८७॥ अहीरुहोऽपादाने ।। ७. २. ८८ ॥
अपादाने या पञ्चमी विहिता तदन्तात्तसुः प्रत्ययो भवति वा तच्चेदपादानं हीयरुहो: संबन्धि न भवति । ग्रामादागच्छति ग्रामतः आगच्छति । चौराद्विभेति चौरतो बिभेति । अहीयरुह इहि किम् ? सार्थात् हीयते सार्थाद्धीनः पर्वतादवरोहति । सार्थादिति कर्तु रपायेऽवधिविवक्षा, सार्थेन हीयते देवदत्तः इत्यर्थः । हीयते इति कर्मकर्तरीत्यन्ये । सार्थात्स्वयमेव हीयते देवदत्त इत्यर्थः । हीयेति क्यान्तस्य जहातेनिर्देशो जिहीते इत्यस्य व्युदासार्थ:, तेन तत्र प्रतिषेधो न भवति । भूमित उज्जिहोते । हागिति निर्देशेनैव हाङो निवृत्तिसिद्धो हीयेति निर्देशो यत्रैव भावे कर्मणि कर्मकर्तरि च जहातेः प्रयोगस्तत्रैवापायविवक्षा नान्यत्रेत्येवमर्थम् तेन सार्थाज्जहातीति न भवति । अपादान इति किम् । ऋते धर्मात्कुतः सुखम् । आ पाटलिपुत्रादृष्टो देवः । ८८।
भ्या० स० अही ० - हीयत इति जहाति सार्थो देवदत्तं स एवं विवक्षते, नाहं जहामि किंतु स्वयमेव हीयते ।
तेन सार्थाज्जहातीति न भवतीति सार्थो जहातीति वक्तव्ये |
किमयादिसर्वाद्यवैपुल्यबहोः पित्तम् ।। ७. २. ८९ ।।
पञ्चम्या इत्यनुवर्तते, किंशब्दात् व्यादिवजितेभ्यः सर्वादिभ्योऽवैपुल्यवाचिनो बहुशब्दाच्च पञ्चम्यन्तात्तस् प्रत्ययो भवति स च पित् । किम्, कस्मात् कुतः, सर्वादि, सर्वतः, विश्वतः, यतः ततः बहु, बहुभ्यः बहुतः । किमः सर्वादित्वेऽपि