________________
[ पाद. २. सू. ८२-८६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [२७७
न्या० स० व्याश्र०-यत्त इति तसोरुकारानुबन्धत्वात् 'आद्वेरः' २-१-४१ इति न भवति । रोगात्प्रतीकारे ॥ ७. २. ८२ ॥
रोगवाचिनः षष्ठचन्तात्प्रतीकारेऽपनयने गम्यमाने तसुः प्रत्ययो भवति । प्रवाहिकातः कुरु, प्रच्छदिकातः कुरु, अस्य रोगस्य चिकित्सां कुर्वित्यर्थः । ८२। पर्यभेः सर्वोभये ॥ ७. २, ८३॥
परि अभि इत्येताभ्यां यथाक्रम सर्वोभयार्थे वर्तमानाभ्यां तसुः प्रत्ययो भवति । परितः सर्वत इत्यर्थः । अभितः उभयत इत्यर्थः । सर्वोभय इति किम् ? वृक्षं परि, वृक्षमभि ।८३३ आधादिभ्यः ॥ ७. २. ८४ ॥
आद्यादिभ्यः संभवाद्विभक्त्यन्तेभ्यस्तसुः प्रत्ययो भवति । आदौ आदेर्वा आदितः, एवं मध्यतः, अन्ततः, अप्रतः, वक्षस्तः, पार्श्वतः, पृष्ठतः, मुखतः, सर्वतः, विश्वतः, उभवतः, अन्यतः, पूर्वतः, एकतः, इतः। प्रमाणेन प्रमाणाद्वा प्रमाणतः, पृष्ठेन पृष्ठतोऽक सेवेत । एवं पार्श्वतः, इतः, दुष्टः शब्दः स्वरतो वर्णतो वा, शब्दतः, अर्थतः, अधिधानतः, येन यस्मिन्वा यतः, ततः, पृषोदरादित्वात् दलोपः। आधादयः प्रयोगगम्याः ।८।। ___ न्या० स० आद्या०-दलोप इति 'आद्वेरः' २-१-४१ इति तु न तसादावित्यधिकारात्, अयं तु उदनुबन्धः । क्षेपातिग्रहाव्यथेष्वकर्तुस्तृतीयायाः ॥ ७. २. ८५ ॥
तृतीयान्तादकर्तृबाचिनः क्षेपातिग्रहाव्यथाविषये तसुः प्रत्ययो भवति । क्षेपो निन्दा, वृत्तेन क्षिप्तः वृत्ततः क्षिप्तः, वृत्तेन निन्दित इत्यर्थः । अतिक्रम्य ग्रहणमतिग्रहः । वृत्तेनातिगृह्यते वृत्ततोऽतिगृह्यते । साधुवृत्तोऽन्यानतिक्रम्य वृत्तेन गृह्यते । साध्वाचार इति संभाव्यत इत्यर्थः । अतिशयेन वा ग्रहणमतिग्रहः। तत्रातिशयेन गृह्यत इत्यर्थः । अचलनमक्षोभणमव्यथा अभीतिर्वा । वृत्तेन न व्यथते वृत्ततो न व्यथते । वृत्तेन न चलति न बिभेति चेत्यर्थः । क्षेपातिग्रहाव्यथेष्विति किम् ? वृत्तेन भिन्नः । अकर्तु रिति किम् ? देवदत्तेन क्षिप्तः । तृतीयाया इति किम् ? देवदत्तं क्षिपति ।८५। - पापहीयमानेन ॥ ७. २. ८६ ॥ _ अकर्तृवाचिनस्तृतीयान्तात्पापहीयमानाभ्यां योगे तसुः प्रत्ययो भवति । वृत्तेन पापः वृत्ततः पापः, वृत्तेन हीयते वृत्ततो हीयते । शब्दतो हीनः