________________
२२२ ]
बृहवृत्ति-लघुन्याससंलिते [पाद. १ सू० ६६-६८ } प्राणिजातिवयोर्थादा ॥ ७. १. ६६ ॥
प्राणिजातिवाचिनो वयोवचनाच्च तस्य भावे कर्मणि चाञ् प्रत्ययो भवति त्वतलौ च । अश्वस्य भावः कर्म वा आश्वम्, अश्वत्वम्, अश्वता, गार्दभम्, माहिषम्, द्वीपिनो द्वैपम्, हस्तिनो हास्तम्, अनि 'नोऽपदस्य तद्धिते' (७-४-६१) इति अन्त्यस्वरादिलोपः । वयोऽर्थ-कुमारस्य भावः कर्म वा कौमारम्, कुमारत्वम्, कुमारता, कैशोरम्, शावम्, वार्करम्, कालभम् । प्राणिग्रहणं किम् ? तृणत्वम्, तृणता । जातिग्रहणं किम् ? देवदतत्वम्, देवदत्तता ।६६। युवादेरण् ॥ ७. १. ६७ ॥
युवादिभ्यः शब्देभ्यस्तस्य भावे कर्मणि चाण् प्रत्ययो भवति त्वतलौ च । यूनो लिङ्गविशिष्टस्यापि ग्रहणात् युवतेर्भावः कर्म वा यौवनम् युवत्व युवता, चौरादिपाठाद्यौवनिकेत्यपि भवति । स्थाविरम्, स्थविरत्वम्, स्थविरता।
___ युवन्, स्थविर, यजमान, कुतुक, श्रमण, श्रमणक, श्रवण, कमण्डलुक, कुस्त्री, दुःस्त्री, सुस्त्री, सुहृदय, दुर्ह दय, सुहृत्, दुर्ह त्, सुभ्रातृ, दुर्धात, वृषल, परिव्राजक, सब्रह्मचारिन्, अनृशंस, चपल, कुशल, निपुण, पिशुन, कुतूहल, क्षेत्रज्ञ, उद्गातृ, उन्नेतृ, प्रशास्तृ, प्रतिहर्तृ, होतृ, पोतृ, भ्रातृ, भर्तृ, रथगणक, पत्तिगणक, सुष्टु, दुष्ठ, अध्वयु, कर्तृ, मिथुन, कुलीन, सहस, 'सहस्र', कण्डुक कितव इति युवादिः ।
स्थविरश्रमणपिशुननिपुणकुशलचपल-अनृशंसेभ्यो राजादिदर्शनात् टघणपि भवति । स्थाविर्यं श्रामण्यमित्यादि, पूर्वत्राणि द्वंपादि न सिध्यति । इह त्वजि यौवनादि इत्यत्रणोरुपादानम् ।६७। ____ न्या० स० युवा-सुहृदयदुईदशब्दयोरणि 'हृदयस्य ' ३-२-९४ इत्यादेशे 'हृद्भगं ७-४-२५ इत्युभयपदवृद्धो सौहार्द दौहार्दमिति, एवमुत्तरयोरपि, ततश्च एकतरद्वयोपादानेनैव सिद्धे यत् युगलद्वयोपादानं तदर्थभेदार्थम् ।
हायनान्तात् ॥ ७. १. ६८ ॥ ____हायनान्तेभ्यः शब्देभ्यस्तस्य भावे कर्मणि चाण् प्रत्ययो भवति त्वतली च । द्वैहायनम्, द्विहायनत्वम्, द्विहायनता, त्रैहायनम्, चातुर्हायनम् । अत्रावयोवाचित्वात् 'चतुस्त्रेयिनस्य वयसि'-(२-३-७५) इति णत्वं न भवति, वयसि तु पूर्वेणाञ् । त्रैहायणम्, चातुर्हायणम् ।६८।