________________
[पाद. १. सू. ६१-६५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [ २२१
आराधयेति आयूर्वाद्राधेः ण्यन्तादत एव निपातनात् सः एवमुत्तरत्रयेऽपि । अनृशंसेति नन शंसत्यम्, ततो नत्र योगः।।
चौक्षेति चुक्षा शीलमस्य ' अङ्ग्था' ६-४-६० इत्यञ् । अर्हतस्तोन्त् च ॥ ७. १. ६१ ॥ ___ अर्हत्शब्दात् षष्ठयन्ताद्भावे कर्मणि चार्थे ट्यण् प्रत्ययो भवति तत्संनियोगे च तकारस्य न्त् इत्यादेशो भवति, अरिहननात् रजोहननात् रहस्याभावाच्च अर्हन् पृषोदरादित्वात् । यद्वा, चतुस्त्रिशतमतिशयान् सुरेन्द्रादिकृतां पूजां वार्हतीति अर्हन, तस्य भावः कर्म वा आर्हन्त्यम्, आर्हन्ती । प्राक्त्वादितित्वतलौ च अर्हत्त्वम्, अर्हत्ता ।६१३ सहायादा ॥ ७. १. ६२ ॥
सहायशब्दात्तस्य भावे कर्मणि च टयण प्रत्ययो वा भवति, वावचनात्पक्षे योपान्त्यलक्षणोऽकञ् । प्राक्त्वादिति त्वतलौ च । सहायस्य भावः कर्म वा साहाय्यम्, साहायकम्, सहायत्त्वम्, सहायता ।६२। सखिवाणिग्दताद्यः ।। ७. १.६३॥
सखिवणिजदूत इत्येतेभ्यस्तस्य भावे कर्मणि च यः प्रत्ययो भवति प्राक्त्वादिति त्वतलौ च । सख्युर्भावः कर्म वा सख्यम् सखित्वम् सखिता, चणिज्या वणिज्यम् वणिक्त्वं वणिक्ता, दूत्यम् दूतत्वं दूतता, सजादिराकृतिगणत्वात् टयणपि । वाणिज्यम् दौत्यम् ।६३। स्तेनान्नलुक् च ।। ७. १, ६४ ॥
स्तेनशब्दात्तस्य भावे कर्मणि च यः प्रत्ययो भवति तत्संनियोगे च न इत्येतस्य लुग भवति, प्राक्त्वादिति त्वतलौ च । स्तेनस्य भावः कर्म बा स्तेयम्, स्तेनत्वम्, स्लेनता । राजादिदर्शनात् स्तैन्यमित्यपि भवति ।६४। कपिज्ञातेरेयण् । ७. १. ६५ ।।
कपि ज्ञाति इत्येताभ्यां तस्य भावे कर्मणि च एयण् प्रत्ययो भवति स्वत्तलौ च । कपेर्भावः कर्म वा कापेयम् कपित्वम्, कपिता, ज्ञातेयम्, ज्ञातित्वम्, ज्ञातिता, कपेः इकारान्तत्वादणि प्राप्ते ज्ञातेश्च प्राणिजातित्वादनि प्राप्ते वचनम् ।६५।
न्या० स० कपि० इकारान्तत्वादिति यद्यपि कपिशब्दस्य प्राणिजातित्वं तथापि विशेषत्वात् 'वृवर्ण' ७-१-६९ इत्यणि प्राप्ते ।