________________
[ पाद १. सू. ५८-५९] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ २१९ समस्थ, विषमस्थ, पुरस्थ, परमस्थ, मध्यस्थ, मध्यमस्थ, दुष्पुरुष, कापुरुष, विशाल इति बुधादिः, एभ्यो नञ्तत्पुरुषेभ्यो राजादित्वात् टयण् । गडुलविशस्तदायादानामपि पाट केचित् इच्छन्ति । अन्ये तु बुधादीनामष्टानामेव प्रतिषेधमिच्छन्ति, एषामेव च विकल्पमपरे । अथ टयणन्तानामेषां नसमासो भवति वा नवा बुधस्य भावः कर्म वा बौध्यम् न बौध्यम अबौध्यमिति । भवतीत्येके, न भवतीत्यन्ये ।५७।
न्या० स० नञ् तत्० -- अत्र वयोवचनेति स्थटिरशब्दस्य केवलस्यैव युवादौ पाठादत्र नम्पूर्वस्य वयोलक्षणस्यान एव प्राप्तिस्तेनास्थाविरमित्यत्र युवाद्यण् ।
__ अत्रैहायनमिति त्रयो हायना यस्य गृहस्य त्रिहायनस्य भावः, अत्रावयोऽर्थत्वात् 'चतुस्नेहयनस्य वयसि ' २-३-७४ इति न णत्वम् । पृथ्वादेरिमन् वा ॥ ७. १. ५८ ॥
पृथ इत्येवमादिभ्यस्तस्य भावे इमन् प्रत्ययो वा भवति । प्राक्त्वादित्यधिकारात् त्वतलौ च, वावचनाद्यश्चाणादिः प्राप्नोति सोऽपि भवति । पृथोर्भाव: प्रथिमा पृथुत्वं पृथुता पार्थवम् , म्रदिमा मृदुत्वं मृदुता मार्दवम्, बहुलस्य भावो बंहिमा । इमनि बहुलस्य 'प्रियस्थिर' (७-४-३८ ) इत्यादिना बहभावः, बहुलत्वं बहुलता बाहुल्यम् । टयण् । वत्सिमा, वत्सत्वं, वत्सता वात्सं, वयोलक्षणोऽञ् । पृथु, मृदु, पटु, महि, तनु, लघु, बहु, साधु, आशु, उरु, गुरु, खण्डु, पाण्डु, बहुल, चण्ड, खण्ड, अकिंचन, बाल, होड, पाक, वत्स मन्द, स्वादु, ऋजु, वृष, कटु, हस्व, दीर्घ, क्षिप्र, क्षुद्र, प्रिय, महत्, अणु, चारु, वक्र, वृद्ध, काल, तृप्त, इति पृथ्वादिः ।५८॥ वणेदहादिभ्यष्टयण च वा ॥ ७. १. ५९ ॥
वर्णविशेषवाचिभ्यो दृढादिभ्यश्च तस्य भावे टयण इमन च इत्येतौ प्रत्ययौ वा भवतः, प्राक्त्वादित्यधिकारात् त्वतलौ च । वावचनाद्यश्चाण प्राप्नोति सोऽपि भवति । शुक्लस्य भावः शौक्ल्यं शुक्लिमा शुक्लत्वं शुक्लता, कायं कृष्णिमा कृष्णत्वं कृष्णता, काद्रव्यं कद्रिमा कद्रुत्वं कद्रुता, शितेर्भावः शैत्यं शितिमा शितित्वं शितिता शैतम्, वावचनावृवर्णान्तस्य पाञ्चरूप्यम् । दृढादि, द ढयं द्रढिमा दृढत्वं दृढता, वाढयं वढिमा वृढत्वं वृढता, पारिवढयं परिवढिमा परिवृढत्वं परिवृढता, वैमत्यं विमतिमा विमतित्वं विमतिता वैमतम्, सांमत्यं संमतिता संमतित्वं संमतिता सांमतम्, य्ववर्णान्तलक्षणोऽण् टकारो