________________
२१८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[ पाद. १ सू० ५० ]
,
इत्येतौ प्रत्ययावधिकृतौ वेदितव्यो गडुलादीन् वर्जयित्वा ते उत्तरत्रैवोदाहरिष्यन्ते । अपवादैः समावेशार्थः कर्मणि विधानार्थश्चाधिकारः । अगडुलादेरिति किम् ? गाडुल्यम्, कामण्डलवम् । गडुल, विशस्त, दायाद, बालिश, संवादिन्, बहुभाषिन्, शीर्षघातिन् ' शीर्षाघातिन् कमण्डलु इति गडुलादिः । एषु कमण्डलो: ' वृवर्णा ल्लघ्वादेः ( ७ - १-६९ ) इत्यण् । शेषेभ्यस्तु राजादेराकृतिगणत्वात् ट्यण् । गडुलादेरपि केचिदिच्छन्ति । गडुलत्वम् गडुलता ॥५६॥
"
न्या० स० प्राक्त्वा०- ते उत्तरत्रैवेति प्रत्यययोर्द्वित्वेऽपि प्रतिसूत्रं व्यक्त्यपेक्षया बहुवचनं, यद्वा त्वतप्रत्ययान्ताः शब्दाः ।
नत्रतत्पुरुषादबुधाः ॥ ७. १. ५७ ॥
प्राक्त्वान्नञ्पूर्वात्तत्पुरुषाद्वधाद्यन्तवजितात्त्वतलौ भवत इत्ययमधिकारो वेदितव्यः यणादिबाधनार्थम् । न शुक्लोऽशुक्लस्तस्य भावोऽशुक्लत्वमशुक्लता, वर्णलक्षणटचण्बाधया त्वतलावेव, अशौक्त्यम् अकार्ण्यमिति च टयणन्तेन समासः । समासात्तु टयणि नञो वृद्धिः प्रसज्ज्येत । एवमपतेर्भावः कर्म वा अपतित्वम् अपतिता, अत्र पत्यन्तलक्षणटघण्बाधया । अनाधिपत्यम् अगाणपत्यमिति यणन्तेन समासः । अराजत्वमराजता, अत्र राजान्तलक्षणटघण्बाधा, अनाधिराज्यमयौवराज्यमिति टचणन्तेन समासः । अमूर्खत्वममूर्खता, अत्र गुणाङ्गलक्षणटचण्बाधया । अमौर्य्यम जाडयमिति टयणन्तेन समासः । अस्थविरत्वमस्थविरता, अत्र वयोवचनलक्षणाञ्बाधया, अस्थाविरम कैशोरमित्यणत्रन्तेन समासः । अहायनत्वमहायनता, अत्र हायनान्तलक्षणाण्बाधया, अद्वैहायनम् अत्रैहायनमित्यणन्तेन समासः । अपटुत्वमपटुता, अत्र य्वृवर्णलक्षणाण्बाधया, अपाटवमलाधवमित्यणन्तेन समासः । अरमणीयत्वमरमणीयता, अत्र योपान्त्यलक्षणाकञ्बाधया । अरामणीयकम् अकामनीयकमित्यकञन्तेन समासः । नञ्ग्रहणं किम् ? प्राजापत्यम् सैनापत्यम् । तत्पुरुषादिति किम् ? न विद्यते पतिरस्य अपतिर्ग्रामः तस्य भावः कर्म वा आपत्यम् एवमाराज्यम्, आहायनम्, आरमणीयकम् । अबुधादेरिति किम् ? न बुध: अबुधः तस्य भावः कर्म वा आबुध्यम्, आचतुर्यम् ।
बुध, चतुर, संगत, लवण, वड, कत, रस, लस, यथा, तथा, यथातथ, यथापुर, ईश्वर, क्षेत्रज्ञ, संवादिन्, संवेशिन्, संभाषिन्, बहुभाषिन्, शीर्षघातिन्,