________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः हि एकदेशस्थैव सकले शास्त्रमभिज्वलन्ती व्यवहितेऽपि अनन्तरोत्तरादौ प्रवर्तमाना न प्रतिहतशक्तिर्भवति, अधिकारस्तु नदीस्रोतोरूपतया अनन्तर एव प्रवर्त्तते न व्यवहिते, विधिरपि युज्यते एव यतः प्रागजिताये अर्थाः तेषामिह बुद्धया संकलय्य निर्देशात् , तेनानेनैव सर्वेष्वर्थेष्वण विधीयते, अतः पक्षत्रयेऽप्यदोष इति ।
धनादेः पत्युः ॥ ६. १. १४ ॥
धनादेर्गणात्परो यः पतिशब्दस्तदन्ताद्धनपतीत्येवमादेः प्रागजितीयेऽर्थेऽण प्रत्ययो वा भवति । धनपतेरपत्यं तत्र भवस्तत आगतो वा धानपतः, आश्वपतः, राष्ट्रपतेरिदं राष्ट्रपतम्, धान्यपतम् प्राणपत्तम् । धन, अश्व, गज, शत, गण कुल, गृह, पशु, धर्म, धन्वन्, सभा, सेना, क्षेत्र, अधि, राष्ट्र, धान्य, प्राण इति धनादिः । केचित्तु गृहसे नाशब्दौ न पठन्ति, तन्मते गाहपत्यं सैनापत्यम् इत्युत्तरेण ज्य एव । पत्युत्तरपदलक्षणस्य ज्यस्य राष्ट्रादिषु त्रिषु — दोरीयः' (६-३-३१) इतीयस्य चापवादोऽयम् ॥ १४ ॥ अनिदम्यणपवादे च दित्यदित्वादित्ययमपत्युत्तरपदाञ्यः॥६. १.१५॥
दिति-अदिति-आदित्ययमशब्देभ्यः पत्युत्तरपदाच्च प्राजितीयेऽर्थे इदमर्थवजितेऽपत्यादावर्थे योऽणोऽपवादः प्रत्ययस्तद्विषये च ज्यः प्रत्ययो भवति । दितेरपत्यं दैत्यः, अदितेरपत्यमादित्यः । दितिरदितिरादित्यो वा देवतास्य दैत्यम् आदित्यम्, आदित्य्यम् एवं याम्यम्, पत्युत्तरपद-बृहस्पतेरपत्यं बाहस्पत्यः, प्राजापत्यः, बृहस्पतिर्देवतास्य बार्हस्पत्यम्, एव प्राजापत्यम् । अणपवादे च आदित्यस्यापत्यमादित्य्यः, यमस्यापत्यं याम्यः, अत्र परत्वात् 'अत इम्' (६-१-३१) इतीञ् स्यात् । वनस्पतीनां समूहो वानस्पत्यम्, अत्रचित्तलक्षण इकण् स्यात्, ज्यो हि प्राजितीयमणं बाधित्वा सावकाश इति अणपवादग्रहणम् । अणग्रहणं किम् ? वास्तोष्यत्यभार्यः। असत्यण्ग्रहणे स्वापवादविषयेऽप्यस्य समावेशे सति तद्धितः स्वरवृद्धि हेतुः-' (३-२--५५) इत्यादिना पुंवद्भावनिषेधात् वास्तोष्पत्याभार्य इति स्यात् । अनिदमीति किम् ? आदित्यस्येदमादितीयम्, उष्ट्रपति म वाहनम् तस्येदमौष्ट्रपतम्, 'वाहनात् '-(६-३-१७६) इत्यत्र जकारस्य वृद्धिः 'जिदार्षाणियोः' (६-१-१४०) इति च प्रयोजनम् ।। १५॥