________________
१८० ]
बृहद्वृत्ति-लघुन्याससंवलिते
तेन हस्ताद्यः ॥ ६. ४. १०१ ॥
तेनेति तृतीयान्ताद्धस्तशब्दाद्देये कार्ये चार्थे यः प्रत्ययो भवति । हस्तेन देयं कार्यं वा हस्त्यम् । १०१ ।
शोभमाने ॥ ६. ४. १०२ ।।
तेनेति तृतीयान्ताच्छोभमानेऽर्थे इकण् प्रत्ययो भवति । कर्णवेष्टकाभ्यां शोभते कार्णवेष्टकिकं मुखम् । एवं वास्त्रयुगिकं शरीरम् । औपानहिकौ पादौ । असमर्थनञ्समासोऽप्यस्मिन्विषये भवति । कर्णवेष्टकाभ्यां न शोभते अकार्णवेष्टकिकम्, अवास्त्रयुगिकम् । १०२ ।
न्या० स० शोभ० – कर्णवेष्टकाभ्यामिति कर्णौ वेष्टते 'कर्मणोऽण्' ५-१-७२, तावेव कर्णवेष्टक ताभ्यां अथवा वेष्टेते णक: वेष्टकौ कर्णयोर्वेष्टकौ ताभ्याम् ।
[ पाद. ४ सू० १०१-१०५ ]
असमर्थेति अत्र हि नञ् शोभमाने इत्यनेन संबद्धत्वादसमर्थः, तत्समासोऽपि गमकत्वादभिधानाद् भवतीत्यर्थः ।
अकार्णवेष्टकिकमिति इकणमानीय पश्चान्नञ्समासः ।
कर्मवेषाद्यः ।। ६. ४. १०३ ॥
कर्मन् वेष इत्येताभ्यां तृतीयान्ताभ्यां शोभमानेऽर्थे यः प्रत्ययो भवति । कर्मणा शोभते कर्मण्यं शौर्यम् । वेषेण शोभते वेष्यो नटः । पूर्ववन्नञ्समासो भवति । अकर्मण्यः, अवेष्यः । केचिद्वेषस्थाने वेशं पठन्ति, वेश्या नर्तकी । १०३ | कालात्परिजय्यलभ्यकार्यसुकरे ॥ ६. ४ १०४ ॥
कालविशेषवाचिनः शब्दात्तेनेति तृतीयान्तात्परिजय्ये लभ्ये कार्ये सुकरे चार्थे इकण् प्रत्ययो भवति । परितो जेतुं शक्यं परिजय्यम्, शक्ते कृत्यः, लभ्यकार्ययोः शक्तेऽर्हे वा । अकृच्छ्रेण क्रियते यत्तत्सुकरम् । मासेन परिजय्यो मासिको व्याधिः, आर्धमासिकः, सांवत्सरिकः, मासेन लभ्यो मासिकः पट, मासेन कार्यं मासिकं चान्द्रायणम्, मासेन सुकरः मासिकः प्रमादः । कालादिति किम् ? चैत्रैण परिजय्यम् ॥ १०४।
निर्वृत्ते ॥ ६. ४. १०५ ॥
तेनेति कालादिति च वर्तते, कालवाचिनस्तृतीयान्तान्निर्वृतेऽर्थे इकण् प्रत्ययो भवति । अह्ना निर्वृत्तमाह्निकम्, मासिकम्, आर्धमासिकम्, सांवत्सरिकम्, योगविभाग उत्तरत्रास्यानुवृत्त्यर्थः । १०५।
न्या० स० निर्वृ त्ते-अत्र सूत्रेऽन्ये कालादिति न मन्यन्ते तन्मते तात्त्विका ऐर्यापिथिकीत्यादयः स्वमते ' प्रयोजनम्' ६-४-११७ इत्यनेन सिद्धाः ।