________________
( पाद. ४. सू. ९८-१००] श्रीसिद्धहेमचन्द्रशब्दानुशासने पष्ठोध्यायः
[ १७९
न स्यात्, अत्र तु 'संख्यादेश्च' ६-४-८० इति भवति, देयत्वं च प्रत्ययार्थो यथा स्यादिति वचनम् ।
काले कार्ये च भववत् ॥ ६. ४. ९८ ॥
कालवाचिनो निर्देशादेव सप्तम्यन्तादेये कार्ये चार्थे भववत्प्रत्यया भवन्ति, यकाभ्यः प्रकृतिभ्यो येन विशेषेण ये प्रत्यया भवेऽर्थे भवन्ति ताभ्यः प्रकृतिभ्यस्तेन विशेषेण कार्ये देये चार्थे ते प्रत्यया भवन्ति । वद्धि सर्वसादृश्यार्थः । यथा वर्षासु भवं वार्षिकम्, मासिकम्, शारदिकम् श्राद्धं कर्म शारदिक: शारदो वा रोग आतपो वा नेशं नैशिकम्, प्रादोषं प्रादोषिकम्, शौवस्तिकम्, चिरत्नम्, परुत्त्नम्, पुराणम्, पूर्वाह्नतनम्, सायंतनम्, चिरन्तनम्, पौषम्, शैशिरम्, सान्ध्यम्, सांवत्सरम् फलं पर्व वा हैमन्तम्, हैमनम्, प्रावृषेण्यमिति भवति एवं वर्षासु देयं कार्यं वा वार्षिकम् मासिकमित्यादि भवति, प्रत्ययस्य भावोऽत्रातिदिश्यते नाभाव इति द्विगोः परस्य लुप् न भवति । द्वयोर्मासयोर्देयं कार्यं वा द्वैमासिकम्, त्रैमासिकम् ॥९८। व्युष्टादिष्वण ।। ६. ४. ९९ ॥
व्युष्टादिभ्यो निर्देशादेव सप्तम्यन्तेभ्यो देये कार्ये चार्थेऽण् प्रत्ययो भवति । व्युष्टे देयं कार्यं वा वैयुष्टम्, नत्यम् । व्युष्टसाहचर्यान्नित्यशब्दः कालवाची गृह्यते ततः सप्तम्यपवादेन ' कालाध्वनोर्व्याप्ती ' (२-२-४२) इत्यनेन द्वितीयाविधानात् नित्यं देयं कार्यं वेति द्वितीयान्तादेव प्रत्ययः, -अन्ये तु सप्तम्यन्तादपीच्छन्ति । नित्ये विषुवति षड्भिश्चराचरैर्मुहूर्तेरनाक्रम्यमाणे देयं कार्यं वा नैत्यम्, व्युष्ट नित्य निष्कमण प्रवेशन तीर्थं संग्राम संघात अग्निपद पीलुमूल प्रवास उपवास । इति व्युष्टादिः । बहुवचनादाकृतिगणोऽयम् ॥९९॥
न्या० स० व्युष्टा०—विषुवतीति विषुर्नाम मुहूर्तः, सोऽस्यास्ति विषुवत् समरात्रिदिवः कालः पुंनपुंसकः, यदुद्वैजयन्ती 'पुरीतत् महिमा हेम, विषुवत् कर्म्मलोभदो: ' नृषण्ढ लिङ्गाः । यथाकथाचाण्णः ॥ ६. ४. १०० ॥
यथाकथाच शब्दोऽव्यय समुदायोऽनादरेणेत्यर्थे वर्तते तस्माद्देये कार्ये चार्थे णः प्रत्ययो भवति । यथाकथाच दीयते याथाकथाचम् याथाकथाचा दक्षिणा ॥१००॥