________________
[पाद ४. सू. ८७-९३ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ १७७ तद्यात्येभ्यः ॥ ६. ४. ८७ ॥
तदिति द्वितीयान्तेभ्य एभ्यः क्रोशशत योजनशत योजन इत्येतेभ्यो याति गच्छत्यर्थे इकण् प्रत्ययो भवति । कोशशतं याति क्रौशशतिकः, यौजनशतिकः, यौजनिको दूतः । एभ्य इति किम् ? नगरं याति चैत्रः।८७। पथ इकट् ॥ ६. ४. ८८॥
पथिन्शब्दात्तदिति द्वितीयान्ताद्यात्यर्थे इकट् प्रत्ययो भवति । पन्थानं याति पथिकः पथिकी स्त्री, टकारो ड्यर्थः । द्वौ पन्थानौ याति द्विपथिकः, द्विपथिकी स्त्री, कटमकृत्वा इकवचनं परस्वात्समासान्ते कृतेऽपि यथा स्यादित्येवमर्थम् ।८८। नित्यं णः पन्थश्च ।। ६. ४. ८९ ॥
नित्यमिति प्रत्यायार्थविशेषणम् । पथिन्शब्दाद्वितीयान्तान्नित्यं यात्यर्थे णः प्रत्ययो भवति पथिन्शब्दस्य च पन्थादेशः । पन्थानं नित्यं याति पान्थः, पान्था स्त्रो, द्वौ पन्थानौ नित्यं याति द्वैपन्थः, द्वैपन्था स्त्री। नित्यमिति किम् ? पथिकः।८९। शकूत्तरकान्ताराजवारिस्थलजङ्गलादेस्तेनाहते च ॥ ६. ४.९०॥
शकू उत्तर कान्तार अज वारि स्थल जङ्गल इत्येतत्पूर्वपदात् पथिन्नन्तात्तेनेति तृतीयान्तादाहृते यातिचार्थे इकण् प्रत्ययो भवति, शङ्कुपथेनाहतो याति वा शाकुपथिकः, औत्तरपथिकः, कान्तारपथिकः, आजपथिकः । वारिपथिकः, स्थालपथिकः, जाङ्गलपथिकः ।९०। स्थलादेर्मधुकमरिचेऽण् ॥ ६. ४. ९१ ॥
___ स्थलपूर्वपदात्पथिन्नन्तात्तृतीयान्तादाहृतेऽर्थेऽञ् प्रत्ययो भवति तच्चेदाहृतं मधुकं मरिचं वा भवति स्थलपथेनाहृतं मधुकं मरिचं वा स्थाळपथम् । मधुकमरिच इति किम् ? स्थालपथिकमन्यत् ।९१। तुरायणपारायणं यजमानाधीयाने ॥ ६. ४. ९२ ॥
आभ्यां निर्देशादेव द्वितीयान्ताभ्यां यथासंख्यं यजमानेऽधोयाने चार्थे इकण् प्रत्ययो भवति । तुरायणं नाम यज्ञस्तं यजते तौरायणिकः, पारायणमधीते पारायणिकः ।९२॥ संशयं प्राप्ते ज्ञेये ॥ ६. ४. ९३ ।।
संशयमिति द्वितीयान्तात्प्राप्तेऽर्थे इकण् प्रत्ययो भवति स चेत्प्राप्तोऽर्थो