________________
१७६ ]
बृहवृत्ति-लघुन्याससंवलिते [पाद. ४ सू. ८१-८६ ] गोदानादीनां ब्रह्मचर्य ॥ ६. ४. ८१ ॥
गोदानादिभ्यो निर्देशात् षष्ठयन्तेभ्यो ब्रह्मचर्येऽभिधेये इकण् प्रत्ययो भवति । गोदानस्य ब्रह्मचर्य गोदानिकम्, आदित्यवतानामादित्यवतिकम, महानाम्नीनां माहानाम्निकम् । गोदानादयः प्रयोगगम्याः, येभ्योऽस्मिन्नर्थे इकण दृश्यते ते गोदानादयः ।८१॥ . न्या० स० गोदा० गोदानस्येति गाव इति लोम्नामाख्या गवां लोभ्नां दानं लवनं वपनमित्यर्थः, यावत् गोदानं न करोति तावद् ब्रह्मचर्यमित्यर्थः ।। चन्द्रायणं च चरति ॥ ६. ४. ८२ ॥
चन्द्रायणशब्दान्निर्देशादेव द्वितीयान्तागोदानादिभ्यश्चात् द्वितीयान्तेभ्यश्चरत्यर्थे इकण् प्रत्ययो भवति । चन्द्रायणं चरति चान्द्रायणिकः, गोदानं चरति गौदानिकः, आदित्यवतिकः, महानाम्न्यो नाम ऋचः। तत्साहचर्यातासां व्रतमपि महानाम्न्यः, महानाम्नीव्रतं चरति माहानाम्निकः ।८२। देवव्रतादीन डिन् ॥ ६. ४, ८३ ॥
देवव्रतादिभ्यो निर्देशादेव द्वितीयान्तेभ्यश्चरत्यर्थे डिन् प्रत्ययो भवति । देवव्रतं चरति देवव्रती, तिलवती, अवान्तरदीक्षी, महाव्रती, देवव्रतादयः प्रयोगगम्याः। डिस्करणमुत्तरत्रान्त्यस्वरादिलोपार्थम् ।८३।
उकश्चाष्टाचत्वारिंशतं वर्षाणाम् ॥ ६. ४. ८४ ॥ ___ वर्षाणां संबन्धिनोऽष्टाचत्वारिंशच्छब्दाव्रतवृत्तेनिदेशादेव द्वितीयान्ताच्चरत्यर्थे डकश्चकारा ड्डिन् च प्रत्ययो भवति । अष्टाचत्वारिंशद्वर्षसहितं व्रतमष्टाचत्वारिंशत् तच्चरति अष्टाचत्वारिंशकः, अष्टाचत्वारिंशी ८४। चातुर्मास्यं तो यलुक च ॥६. ४. ८५ ॥
चातुर्मास्यशब्दाद्वतवृत्तेनिर्देशादेव द्वितीयान्ताच्चरत्यर्थे तो डकडिनी प्रत्ययौ यलोपश्च भवति । चतुर्यु मासेषु भवानि 'यज्ञे ञ्यः' (६-३-१३३) . इति ज्यः चातुर्मास्यानि नाम यज्ञाः, तत्सहचरितानि व्रतानि चातुर्मास्यानि तानि चरति चातुर्मासकः चातुर्मासी ।८५। क्रोशयोजनपूर्वाच्छतायोजनाच्चाभिगमाहे ॥ ६. ४. ८६ ॥ __क्रोशशब्दपूर्वाद्योजनशब्दपूर्वाच्च शताद्योजन शब्दाच्च निर्देशादेव पञ्चम्यन्तादभिगमाईऽर्थे इकण् प्रत्ययो भवति । क्रोशशतादभिगमनमर्हति क्रौशशतिको मुनिः, योजनशतिको मुनिः, योजनिकः साधुः ।८६। .....