________________
[पाद. ३. सू. १८७-१८९] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [१४९ इत्यादि सिद्धं भवति । ब्राह्मणमपि चेद एव । मन्त्रब्राह्मणं हि बेदः ।१८६।
न्या० स० शौन०-शात्यायनिन इति ध्यणन्तात् ‘तिकादेरायनिम् । ६-१-१०७ इत्यायनण् , शाट्यायनिना शाट्यायनेन वा प्रोक्तं वेदं विदन्त्यधीयते वा ।
नन्वनेन वेदे प्रत्ययोऽभ्यधामि तत्कथं भाल्लविना प्रोक्तं ब्राह्मणम् ? इत्याह-बामप्पमपीति । पुराणे कल्पे ॥ ६. ३. १८७ ।।
तेनेति तृतीयान्तात्प्रोक्तेऽर्थे णिन् प्रत्ययो भवति, अणाद्यपधादः । स चेत्प्रोक्तः पुराणः कल्पो भवति । पि*न प्रोक्तः कल्पः पुराणः पैङ्गी कल्पः, तृणपिङ्गेन तार्णपिनी कल्पः, अरुणपराजेन आरुणपराजी कल्पः, येऽपि पैङ्गिनं कल्पं विदन्त्यधीयते वा तेऽपि पैङ्गिनः, आरुणपराजिनः । प्रोक्ताद्धि लुबुक्तैव । पुराण इति किम् ? आश्मरथः कल्पः। आश्मरथ्येन प्रोक्तः कल्प उत्तरकल्पेभ्य आरातीय इति श्रूयते ।१८७॥
काश्यपकौशिकावेदवच ।। ६. ३. १८८ ॥ __ आभ्यां तेन प्रोक्त पुराणे कल्पे णिन् प्रत्ययो भवति, ईयापवादः । बेदवच्चास्मिन्कल्पे कार्यं भवति । काश्यपेन प्रोक्त पुराण कल्पं विदन्त्यधीयते वा काश्यपिनः, कौशिकेन कौशिकिनः, काश्यपिनां धर्म आम्नायः संघो वा काश्यपकः, कौशिकिनां कौशिककः । वेदवच्चेत्यतिदेशाद्वेदेन् ब्राह्मणमत्रैवेति नियमाद्वेदित्रध्येतृविषयता 'चरणादकञ्' (६-३-१६७) इत्यकञ् च भवति । कल्प इत्येव ? काश्यपीया संहिता, पुराण इत्येष ? इदानींतनेन गोत्रकाश्यपेन प्रोक्तः कल्पः काश्यपीयः। वदवच्चेति अतिदेशार्थं वचनम् ।१८८।
न्या० स० काश्य० अतिदेशार्थमिति 'पुराणेकल्पे । ६-३-१८७ इत्यनेनैव सिद्धत्वात् । शिलालिपाराशर्यानटभिक्षुसूत्रे ॥ ६. ३. १८९ ।।
शिलालिन्पाराशर्य इत्येताभ्यां तेन प्रोक्त यथासंख्यं नटसूत्रे भिक्षुसूत्रे च णिन् प्रत्ययो भवति, अणजपवादः। वेदवच्चास्मिन् कार्यं भवति, नटानामध्ययनं नटसूत्रम् । भिक्षूणामध्ययनं भिक्षुसूत्रम् । शिललिना प्रोक्त नटसूत्रं विदन्त्यधीयते वा शैलालिनो नटाः, पाराशर्येण प्रोक्त भिक्षसूत्रं विदन्त्यधोयते वा पाराशरिणो भिक्षवः, शैलालिनां धर्म: आम्नायः संघो वा शैलालकम्, पाराशरकम्, अतिदेशाद्वेदित्रध्येतृविषयता चरणादकञ् च भवति । नट भिक्षुसूत्र इति किम् ? शैलालं पाराशरम् ।१८९। न्या० स० शिला-मणअपवाद इति शिलालिन् शब्दात्तेन प्रोक्त पाराशर्यात्तु शकलादेर्यत्रः ।