________________
१४८ ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ३ सू. १८३-१८६ ] न्या० स० मौदा०-जाजल इति जातं जलमस्य पृषोदरादित्वात् साधुः, 'जजल' १८ (उणादि) इति निपातनाद् वा, जजलस्यापत्यमृष्ययणि जाजलः यद्वा जाजलेन प्रोक्तं . जाजलं, तदस्यास्ति इन् , जाजलेन जाजलिना वा प्रोक्तं वेदं 'कलापि' ७-४-६२ इत्यन्त्यस्वरादिलोपः । कठादिभ्यो वेदे लुप् ॥ ६. ३. १८३ ॥
कठ इत्येवमादिभ्यः प्रोक्ते यः प्रत्ययस्तस्य लुप् भवति स चेत्प्रोक्तो वेदो भवति । कठेन प्रोक्तं वेदं विदन्त्यधीयते वा कठाः, चरकाः, कर्कराः, धेनुकण्ठाः, गोगडाः, 'वेदेन्ब्राह्मणमत्रैव' (६-२-१३०) इति नियमात् वेदिध्येत्रोरेव विषये प्रत्ययस्य लप् । वेद इति किम् ? चरकेण प्रोक्त्ताश्वारकाः श्लोकाः, चरको वैशम्पायनः, कठादयः प्रयोगगम्याः ।१८३। तित्तिखिरन्ततुखण्डिकोखादीयण् ॥ ६. ३. १८४ ॥
तित्तिरिवरतन्तु खण्डिक उख इत्येतेभ्यस्तेन प्रोक्तेऽर्थे ईयण प्रत्ययो भवति अणोऽपवादः स चेत्प्रोक्तो वेदो भवति । तित्तिरिणा प्रोक्तं वेद विदन्त्यधीयते वा तैत्तिरीयाः, वारतन्तवीयाः, खाण्डिकीयाः, औखीयाः । वेदे इत्येव ? तित्तिरिणा प्रोक्तास्तैत्तिराः श्लोकाः, अत्रापि 'वेदेन्ब्राह्मणमत्रैव' (६-२-१३०) इत्युपतिष्ठते ।१८४॥
छगलिनो यिन् ॥ ६. ३. १८५ ॥ ___ छगलिनशब्दात्तेन प्रोक्ते वेदे णयिन् प्रत्गयो भवति, अणोऽपवादः । छगलिना प्रोक्त वेदं विदन्त्यधीयते वा छागले यिनः ।१८५॥ शौनकादिभ्यो णिन् ॥ ६. ३. १८६ ॥
शौनक इत्येवमादिभ्यस्तेन प्रोक्त वेदे णिन् प्रत्ययो भवति, अणाद्यपवादः। शौनकेन प्रोक्त वेदं विदन्त्यधीयते वा शौनकिनः, शाङ्गरविणः, वाजसनेयिनः । वेद इत्येव ? शौनकीया शिक्षा । शौनक, शाङ्गरव, वाजसनेय, शापेय, काकेय, (शाफेय) शाष्पेय, शाल्फेय, स्कन्ध, स्कम्भ, देवदर्श, रज्जुभार, रज्जुतार, रज्जुकण्ठ, दामकण्ठ, कठ, शाठ, कुशाठ, कुशाप, कुशायन, आश्वपञ्चम, तलवकार, परुषांसक, पुरुषांसक, हरिद्र, तुम्बुरु, उपलप, आलम्बि, पलिङ्ग, कमल, ऋचाभ, आरुणि, ताण्डथ, श्यामायन, खादायन, कषायतल, स्तम्भ इति शौनकादयः । आकृतिगणोऽयम्, तेन भाल्लविना प्रोक्त ब्राह्मणं विदन्त्यधीयते वा भाल्लविनः, शाटथायनिनः, ऐतरेयिणः