________________
[पाद. ३. सु. ४३-४५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [ १११ प्रस्थपुरवहान्तयोपान्त्यधन्वार्थात् ॥ ६. ३. ४३ ॥
दोर्देशादिति च वर्तते । प्रस्थपुरवह इत्येतदन्तात् यकारोपान्त्याद्धन्ववाचिनश्च देशवाचिनो दुसंज्ञकाच्छेषेऽर्थेऽकञ् प्रत्ययो भवति । धन्वशब्दो मरुदेशवाची। प्रस्थान्त, मालाप्रस्थकः शौणप्रस्थकः, काञ्चीप्रस्थकः, वातानप्रस्थकः, बाणप्रस्थकः । पुरान्त, नान्दीपुरकः, वार्तीपुरकः । वहान्त, पैलुवहकः, फाल्गुनीवहकः, कोक्कुटीवहकः, कौकुचीवहकः, योपान्त्य, सांकाश्यकः, काम्पील्यकः, माणिरूप्यकः । दासरूप्यकः आवोतमायवकः । धन्ववाचि, पारेधन्व अपारधन्व पारेधन्वनि भवः पारेधन्वकः । आपारेधन्वकः, ऐरावतकः, सुप्रचष्टे डे सुप्रख्येन निर्वृत्त इत्यणि सौप्रख्ये भवः सौप्रख्यीय इति तु गहादित्वात्, एवं कामप्रस्थीयः। पुरग्रहणमप्राच्यार्थम्, प्राच्याद्धि रोपान्त्यत्वेनैव सिद्धम् । अत एव हि प्राच इति नानुवर्तते । ईयबाधनार्थं वचनम् ।।३। __ न्या. स. प्रस्थ०-फाल्गुनीवहक इति फल्गुनीभ्यां 'चन्द्र' ६-२-६ इत्यण लुप् जीनिवृत्तिः, पुनर्जी, फल्गुन्योर्जाता ‘फल्गुन्याष्टः' ६-३-१०६ इति प्राप्तौ मतान्तरेण 'भर्तुसंध्यादेरण' ६-३-८९ भवति, ततो 'वृद्धिर्यस्य' ६-१-८ इति दुःसंहा। राष्ट्रेभ्यः ॥ ६. ३. ४४ ॥
दोर्देशादिति च वर्तते । राष्ट्रेभ्यो देशेभ्यो दुसंज्ञकेभ्यः शेषेऽर्थेऽकञ् प्रत्ययो भवति । ईयस्यापवादः । आभिसारे भवः आभिसारकः, आदर्श आदर्शकः, औपुष्टश्यामायने राष्ट्रावधी अपि राष्ट्रे । औपुष्ट्रे औपुष्टकः, श्यामायने श्यामायनकः, बहुवचनमकबः प्रकृतिबहुत्वं द्योतयदपवादविषयेऽपि प्रापणार्थम्, तेनेहापि भवति । आभिसारगर्तकः, अत्र गर्वोत्तरपदलक्षण ईयो न भवति । राष्ट्र समुदायो न राष्ट्रग्रहणेन गृह्यते इतोह न भवति । काशिकोशलीयः ।४४। बहुविषयेभ्यः ॥ ६. ३. ४५॥
दोरिति निवत्तम, योगविभागात् । अतः परं दोरदोश्च विधानम । देशादिति तु वर्तते । राष्ट्रेभ्यो देशेभ्यो बहुत्वविषयेभ्यः शेषेऽर्थेऽकञ् प्रत्ययो भवति, अणाद्यपवादः । अङ्गेषु जातः आङ्गकः, वङ्गेषु जातः वाङ्गकः, दार्वेषु दार्वकः काम्बवेषु काम्बवकः, जिन्हुषु जैन्हवकः, अजमीढेषु आजमीढकः, अजकन्देष आजकुन्दकः, कालजरेषु कालजरकः, वैकुलिशेषु वैकुलिशकः, विषयग्रहणम् अनन्यत्र भावार्थम्, तेन य एकत्व द्वित्वयोरपि वर्तते ततो माभूत् ।