________________
११. ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ३. सू. ३९-४२ ] जनपदवाचिनः प्रत्ययो भवति । तत्र मद्रात् दिक्पूर्वपदात् 'मद्रादञ्' : (६-३-२४) इत्यञ् विहितः शेषपूर्वपदात्त्वयं भवति । सुमद्रकः, सर्वमद्रकः, अर्धमद्रकः, सुवृजिकः, सर्ववृजिकः, अर्धवृजिकः, पूर्ववृजिकः, अपरवृजिकः देशादिति किम् ? मनुष्यवृत्तेर्जिमाद्रः ।३८॥ उवर्णादिकण् ॥ ६. ३. ३९ ॥
उवर्णान्ताद्देशवाचिनः शेषेऽर्थे इकण प्रत्ययो भवति । अणोऽपवादः परत्वादीयणिकेकणोऽपि बाधते । शबरजम्ब्वां भवः शाबरजम्बुकः । निषादकवा भव: नैषादकर्षुकः । दाक्षिका दाक्षिकर्षुकः । प्लाक्षिका प्लाक्षिकषुकः । नापितवास्तुर्वाहीकग्रामः तत्र भवो नापितवास्तुकः। यस्तु प्राग्ग्रामस्तस्मादुत्तरेण भवति । आवोतमायौ भवः आव्रीतमायवकः । जिहनषु जैह्नवक इति परत्वाद्योपान्त्यलक्षणो राष्ट्रलक्षणश्चा कन, ऐक्ष्वाक इत्यत्र तु कोपान्त्यलक्षणोऽण । उवर्णादिति किम् ? देवदत्तः । देशादित्येव । पटोश्छात्राः पाटवाः ।३९।
न्या० स० उवर्णा०-ननु 'ऋवर्णोवर्ण' ७-४-७१ इति इकारलोपेन भाव्यं, ततः कणित्येव क्रियताम् ? न, स्त्रियां ङीन स्यात् । शाबरजम्बुक इत्यत्र औत्सर्गिकाऽणो दाक्षिकर्षक इत्यत्रेत्यस्य नापितवास्तुक इत्यत्र 'वाही केषु' ६-३-३६ इति णिकेकणोः प्राप्तिः ।
दोरेव प्राचः ।। ६. ३. ४० ।।
- शरावत्या नद्याः प्राच्यां दिशि देशः प्राग्देशः तद्वाचिन उवर्णान्ताददुसज्ञकादेव इकण् प्रत्ययो भवति । आषाढ जम्ब्बां भवः आषाढजम्बुकः, नापितवास्तौ जातः नापितवास्तुकः, पूर्वेण सिद्धे नियमार्थं वचनम् । इह न भवति मल्लवास्तुः प्राग्रामः माल्लवास्तवः । एवकार इष्टावधारणार्थः । दोः प्राच एवेति नियमो मा भूत् ।४०।
न्या० स० दोरे०-आषाढजम्बूक इति 'चन्द्रयुक्त' ६-२-६ इत्यणि आसाढा प्रयोजनमस्य 'विशाखाषाढा' ६-४-१२० इत्यण , तस्य जम्बूस्तत्र भवः । इतोऽकञ् ॥ ६. २. ४१॥
दोर्देशात्प्राच इति च वर्तते । ईकारान्तात्प्राग्देशवाचिनो दुसंज्ञकाच्छेषे. ऽर्थेऽकञ् प्रत्ययो भवति, ईयस्यापवादः । काकन्यां भवः काकन्दकः, माकन्यां भवः माकन्दकः, प्राच इत्येव ? दात्तामित्र्यां भवः दात्तामित्रीयः ।४१ रोपान्त्यात् ॥ ६. ३. ४२ ॥
रेफोपान्त्यात्प्राग्देशवाचिनो दुसंज्ञकाच्छेषेऽर्थेऽकञ् प्रत्ययो भवति, ईयस्यापवादः । पाटलिपुत्रकः, ऐकचक्रकः ।४२॥