________________
८६ ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद-१, सूत्र-४०-४४
धातोद्वित्वे सति पूर्वस्य स्वरान्तस्य ह्रस्वो भवति । पपौ, निनाय लुलाव, कु, चकार, सिसेके, लुलोके, तुत्रौके ॥३६॥
गहोर्जः॥ ४. १.४० ॥
धातोद्वित्वे सति पूर्वयोर्गकारहकारयोर्जकारो भवति । जगाम, जघास, ह,-जहौ, जिहीर्षति, जुहोति, जहाति ॥४०॥
द्य तेरिः॥ ४. १. ४१ ॥
द्युतेद्वित्वे सति पूर्वस्योत इर्भवति । दिद्युते, प्रदिद्युतत् , देद्युत्यते, विदिद्युतिषते, विदिद्योतिषते ॥४१॥
न्या० स०--द्युतेरिः-विदिद्युतिषते-इत्यत्र 'वौ व्यञ्जनादेः' ४-३-२५ इति सनो वा कित्त्वम् ।
द्वितीयतुर्ययोः पूर्वी ॥ ४. १. ४२ ॥
धातोद्वित्वे सति पूर्वस्य द्वितीयतुर्ययोः स्थाने यथासंख्यं पूर्वावाद्यतृतीयावासन्नौ भवतः । चखान, चिच्छेद, टिठकारयिषति, तस्थौ, पफाल, जुघोष, जझाम, डुढौके, दधौ, बभार । द्वितीयतुर्ययोरिति किम् ? पपाच ॥४२॥
न्या० स०--द्वितीय०-पपाचेति-अत्र सामीप्यात् पूर्वो नकारः स्यात् । तिर्वा ष्ठिवः ॥ ४. १. ४३ ॥
ष्ठिवेद्वित्वे सति पूर्वस्य द्वितीयस्य तिरादेशो वा भवति । तिष्ठेव, टिष्ठेव, तेष्ठीव्यते, टेष्ठीव्यते । तेरिकारोत्रोच्चारणार्थः तेन 'इवृध'-(४-४-४७) इत्यादिना वेटि तुष्ठघषति टुष्ठय पति । पूर्वस्येत्यादेशविधानमेव ज्ञापयति ष्ठिवेः षकारः ठकारपरः ष्ठाष्टयप्रभृतीनां तु तवर्गपरः तेन तस्थौ तष्टयो इत्यादि भवति । केचित्तु 'स्वरेभ्यः' (१-३-३०) इति द्विरुक्तस्य छकारस्य द्वित्वे सति पूर्वस्य त्यादेशमिच्छन्ति । तन्मते उच्छव-उतिच्छिषति, ऋच्छत् -ऋतिच्छिषतीति ॥४३॥
न्या स०--तिर्वा ष्ठिव:-ष्ठिवो भ्वादेदिवादेश्च ग्रहः, ठकारपर इति-यद्यत्र षकारः थकारपरः स्यात् तदाऽनेन तविधानं न कुर्यात् यत: 'अघोषे शिट:' ४-१-४५ इति षलोपे 8 निमित्ताभावे * इति न्यायेन ठस्य थे 'द्वितीयतुर्ययोः' ४-१-४२ इति थकारस्य च ते तकारः सिद्ध एव, पक्षे टकारविधानार्थं तु टिर्वा ष्ठिव इति सूत्रं कुर्यादित्यर्थः । तष्ट्याविति-अत्र 'अघोषे शिट:' ४-१ - ४५ इति षलुपि निमित्ताभाव इति टस्य तकारः ।
व्यञ्जनस्यानादेलु क् ।। ४. १. ४४ ॥ धातोद्वित्वे सति पूर्वस्य व्यञ्जनस्यानादेलुंग भवति । जग्ले, मम्ले, पपाच, माटतः,