________________
पाद - १, सूत्र - ३५-३९ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः
जेर्गि: सन्परोक्षयोः ॥ ४. १. ३५ ॥
जयतेः सन्परोक्षयोद्वित्वे सति पूर्वस्मात्परस्य गिरादेशो भवति । जिगीषति, विजिगीषते, जिगाय, विजिग्ये । सन्परोक्षयोरिति किम् ? जेजीयते । जिनातेजिरूपस्य लाक्षणिकत्वाज्जिज्यतुः ||३५||
[ ८५
न्या० स० - जेगि: सन् - पूर्वस्मादिति यदि पूर्वादित्यधिकारो न स्यात्तदा द्वित्वसहितस्यापि धातोरादेशः स्यात्, यद्वा पूर्वस्या भक्त ेः स्यात् न च वाच्यं कृतेऽपि 'गहोर्ज : ' ४-१-४० इति स्याद्विधानसामर्थ्यान्न भवतीत्याशङ्का स्यात् एवमुत्तरत्रापि ।
चेः किव ।। ४. १. ३६॥
चिनोतेः सन्परोक्षयोद्वित्वे सति पूर्वस्मात्परस्य किरादेशो वा भवति । चिकीषति, चिचीषति, चिकाय, चिचाय, चिक्ये, चिच्ये । सन्परोक्षयोरित्येव, - चेचीयते ॥ ३६ ॥
न्या० स० चेः किर्वा चिकीषतीति- 'स्वर हन्' ४-१-१०४ इति दीर्घत्वे द्वित्वे किरूपादेशे पुन: 'स्वरहन्' ४-१-१०४ इति दीर्घत्वं यावत्संभव इति न्यायात् ।
पूर्वस्यास्वे स्वरे योरिव ॥ ४. १. ३७ ॥
धातोद्वित्वे सति यः पूर्वस्तस्य संबन्धिनो योरिकारस्योकारस्य चास्वे स्वरे परे आसन्नौ इय् उव् इत्येतावादेशौ भवतः । इयेष, उवोष, इर्यात, इयृयात् । अर्तेर्यङ्लुपि द्वित्वे पूर्वस्याकारे 'रिरौ च लुपि' (४-१-५६ ) इत्यनेन रिरोइत्यागमे तदिवर्णस्य चेयभावे सति अरियत, अरियरीति, एके त्वत्रेयं नेच्छन्ति श्रर्यत अयंरीतीति । तन्मतसंग्रहार्थं पूर्वस्येति योः समानाधिकरणं विशेषणं तेन इकारोकारमात्रस्यैव पूर्वस्येयुवौ भवतः । अस्व इति किम् ? ईषतु:, ऊषतुः । स्वर इति किम् ? पिपक्षति, पुपूषति, इयाज, उवाप ॥३७॥
न्या० स०० - पूर्वस्यास्वे- इयेषेति - अस्वे स्वरे इति भणनात् गुणे कृते इयादेशः, नन्वियादेशेऽपि विधेये 'स्वरस्य परे' ७-४-११० इत्यनेन गुणस्य स्थानिवद्भावादियुवौ न प्राप्नुतः ? सत्यं, परे इति सप्तमी सप्तम्या च निद्दिष्टे पूर्वस्यानन्तरस्यैव, अत्र तु पकारेण व्यवधानमिति न स्थानित्वं, अस्वे इति नत्र निद्दिष्टमनित्यमिति वा, यद्वा स्वे स्वर इति व्याप्तेः । ननु तथापि न प्राप्नोति असिद्धं बहिरङ्गम् इति न्यायेन गुणस्यासिद्धत्वात् ? न, न स्वरानन्तर्य इति न्यायादयं न्यायो नोपतिष्ठते ।
योः समानाधिकरणमिति - योः किंविशिष्टस्य पूर्वस्य न तु पूर्वसंबन्धिनः, यदि इकार-ईकार-उकाराः स्वातन्त्र्येण पूर्वे भवेयुरत्र तु रिरीत्यादेरधिकस्य संबन्धिनः ।
ऋतोऽत् ॥ ४. १. ३८ ॥
धातोद्वित्वे सति पूर्वस्य ऋतोऽद्भवति । चकार, ववृधे ||३८|| ह्रस्वः ।। ४. १.३१ ॥