________________
७८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-१, सूत्र-४-७
रस्य द्वित्वं ततः कथं सप्तमी नादायि ? इत्याह-उत्तरार्थ इति, तेनोत्तरेण प्रतीषिषतीत्यादि सिद्धं, दशितोदाहरणाऽपेक्षया चेदमुक्तं यावता यङ लुपि बोभवतीत्यादिष्विहापि फलमस्ति । किञ्च चकार उत्तरार्य एवेत्यत्रैवकारेण षष्ठीतिनिर्देशस्य इहार्थत्वमपि ज्ञायते ।
स्वरादेर्द्वितीयः ॥ ४. १. ४.॥
स्वरादेर्धातोद्विवचनभाजो द्वितीयांश एकस्वरो द्विर्भवति न त्वाद्यः। अटिटिषति, अशिशिषति, अटाटयते, अशाश्यते । प्राक्तु स्वरे स्वरविधेरित्येव,-आटिटत् , आशिशत प्रोणुनाव, प्रोणुनविषति, अरिरिषति, अरिरिषतीत्यत्र तु इट: कायित्वं न निमित्तत्वम् । ततो द्वित्वनिमित्तस्य स्वरादिप्रत्ययस्याभावात् प्राक् स्वरविधिरेव ॥४॥
न्या० स०-स्वरादे०-प्रोर्ण नावेति-अत्र द्वित्वरूपे परे कार्ये णत्वशास्त्रस्याऽसत्त्वात् द्वित्वे कृते णत्व । अरिरिषतीति-ऋक् ऋप्रापणे ऋश् वा, अतुमऽरितुमरीतुं वा इच्छतीति सनि आद्याभ्यां 'ऋस्मिपूङ' ४-४-४८ इति ऋशस्तु 'इवृध' ४-४-४७ इत्यनेनेट् । अरिरीषतीत्येतत्तु ऋश एव, अन्यथा 'वृतोनवा' ४-४-३५ इति दी? न स्यात् ।।
इट: कारियत्वमिति-स्वरादित्वाद्धातोद्वितीयांशस्य इटरूपस्य द्वित्वे चिकीषिते इट: कायित्वमेवेत्यथः । स्वरविधेरेवेति-गुणरूप इत्यर्थः ।
न बदनं संयोगादिः॥ ४. १.५ ॥
स्वरादेर्धातोद्वितीयस्यावयवस्यकस्वरस्य बकारदकारनकाराः संयोगस्यादयो न द्विर्भवन्ति । उब्जिजिषति, अट्टिटिषते, अड्डिडिषति, उन्दिदिषति, इन्द्रिद्रीयिषति, औब्जिजत् , आट्टिटव , आड्डिडत् , औन्दिदत् । बदनमिति किम् ? ईचिक्षिषते । संयोगादिरिति किम ? प्राणिणिषति ॥५॥
न्या० स०-न बदनं-संयोगादिरित्यस्य द: किर्भावे इति पुंस्त्वम् ।
अयि रः॥ ४. १.६ ॥
स्वरादेर्धातोद्वितीयस्यावयवस्यकस्वरस्य रेफः संयोगादिद्विनं भवति, 'अयि' रेफात्पर आनन्तर्येण यकारश्चेन्न भवति । अचिचिषति, प्रोणुनविषति, प्रोर्णोनयते, प्रोणुनाव, प्रोणुनवत . प्राचिचत । अयोति किम् ? अरार्यते। प्रर्यमाख्यातवान , आरर्यत् । संयोगादिरित्येव,-अरिरिषति ॥ ६॥
न्या० स०-अयि र:-आनन्तर्येणेति- सप्तम्या निद्दिष्टे पूर्वस्य * तच्चानन्तरस्यैवेति । आरर्यदिति-अत्र स्वरादेशोन्त्यस्वरलोपरूपो द्वित्वे कार्ये स्थानी निमित्तापेक्षयापि प्राविधिरिष्यते ।
नाम्नो द्वितीयाद्यथेष्टम् ।। ४. १.७॥