________________
। चतुर्थोऽध्यायः प्रथमः पादः । द्विर्धातुः परोक्षा प्राक्तु स्वरे स्वरविधेः ॥ ४. १. १.॥
परोक्षायां च प्रत्यये परे धातुद्धिर्भवति,-धातोरवस्थितस्य द्वितीयमुच्चारणं क्रियते इत्यर्थः । स्वरादौ तु द्विवचननिमित्त प्रत्यये स्वरस्य कार्यात् प्रागेव द्वित्वं भवति । पपाच, पपाठ, इयाज, आर, अचकमत । धातुरिति किम् ? प्राशिश्रियत् । 'वेत्तेः कित्' (३-४-५१) इति वचनादामि परोक्षाकार्य न भवति । दयांचके, विदांचकार । परोक्षाङ इति किम् ? अदात् । प्रागिति किम् ? निनाय, निनयिथ, निन्यतुः, चक्रतुः, पपौ, पपतुः, जग्मतुः, प्रदधत् । एवमादिषु वृद्ध्यादेः स्वरविधेः पूर्वमेव द्वित्वं सिद्धं भवति । स्वर इति किम् ? दिदीर्वान , शिशीर्वान् , जेघ्रीयते, देध्मीयते, जेगीयते। स्वरविधेरिति किम् ? श्वि, शुशाव। तितवनीयिषतीत्यत्र तु स्वरविद्विवचननिमित्तप्रत्ययाजन्यत्वान्न ततः प्राग द्वित्वम् । जग्ले, मम्ले इति अनिमित्तकमात्वम् । अधिजगे इति विषये प्रादेशः । प्राक्तु स्वरे स्वरविधेरिति आद्विवचनमधिकारः, अन्यथा हि आटिटव इत्यादि न सिध्यति ॥१॥
__ न्या० स० द्विर्धातु:०-पपाचेति-अत्र पुनरपि द्विवचनं न भवति, द्विरिति वचनात् । निनायेति-'स्वरस्य परे' ७-४-११० इत्यनेनापि सिद्धम् ? नैवं, कालापेक्षायां स्थानित्वाऽभावः । शुशावेति-अत्र हि स्वरव्यञ्जनकार्य 'वा परोक्षायाङि' ४-१-९० इति य्वत् 'दीर्घमवोऽन्त्यम्' ४-१-१०३ । तितवनीयिषतीति-तुक वृत्तीत्यतोऽनडन्तात् क्यनि सनि 'अन्यस्य' ४-१-८ इति द्वित्वम् । स्वरविधेरिति-गुणरूपस्येत्यर्थः ।
प्राटिटदित्यादि न सिध्यतीति-प्रागेव णेर्लोपे सति ।
आद्योऽश एकस्वरः॥ ४. १. २.॥
अनेकस्वरस्य धातोराद्य एकस्वरोऽवयवः परोक्षा. प्रत्यये द्विर्भवति । जजागार, अचकाणत् । पूर्वेण सर्वस्य द्वित्वे प्राप्ते वचनम् ॥ २॥
न्या० स०-प्राद्योंश-अनेकस्वरस्येति-एकस्वरस्यैकस्वरेंऽशे द्विरुक्ते न किञ्चिदऽस्य फलं, यद्वा 'एकस्वर' ४-४-५७ इति संबन्धिशब्द: सामर्थ्यादऽनेकस्वरं धातुमाक्षिपति । एकत्सूत्रं विना अचकाणदित्ययं विनश्यति, तथा अजूघुणदित्यपि न तु जजागार इति ।
सन्यङश्च ॥४. १. ३.॥
सन्नन्तस्य यङतस्य च धातोराद्य एकस्वरोऽवयवो द्विर्भवति । तितिक्षते, चिकीर्षति, । पापच्यते, लोलूयते । षष्ठीनिर्देश उत्तरार्थः। चकारः पूर्वोक्तनिमित्तसमुच्चयार्थ उत्तरार्थ एव, तेनोत्तरत्र परोक्षाङ सन्नन्तयङन्तानां च यथासंभवं द्वित्वं सिद्धम् ॥३॥
न्या० स०-सन्यङश्च-षष्ठीनिर्देश इति-नन्वत्र सनि यङि च निमित्तभूते एकस्व