________________
बृहद्वृत्ति- लघुन्याससंवलिते [ पाद- ४, सूत्र - ७३-७६
भ्राश-भ्लाश-भ्रम-क्रम-क्लम-त्रसि- त्रुटि - लषि-यसिसंयसेर्वा । ३.४.७३ ।
एभ्यः कर्तरि विहिते शिति श्यः प्रत्ययो भवति वा, प्राप्ताप्राप्तविभाषेयम् । भ्राश्यते, भ्राशते, भ्लाश्यते, भ्लाशते, भ्राम्यति, भ्रमति, भौवादिकस्य भ्रम्यति । क्राम्यति, क्रामति, क्लाम्यति क्लामति, त्रस्यति, त्रसति, त्रुटयति, त्रुटति, लष्यति, लषति, यस्यति, यसति, संयस्यति, संयति । यसिग्रहणेनैव सिद्धे संयसिग्रहणमुपसर्गान्तरपूर्वकस्य यसेनिवृत्त्यर्थम्, तेन श्रायस्यति प्रयस्यति इति नित्यं श्यः ॥ ७३ ॥
कुषि-रजे-र्व्याप्ये वा परस्मै च ॥ ३. ४. ७४ ॥
कुषिरञ्जिभ्यां व्याप्ये कर्तरि शिद्विषये परस्मैपदं वा भवति तत्संनियोगे श्यश्व, क्यात्मनेपदापवादौ । कुष्णाति पादं देवदत्तः कुष्यति पादः स्वयमेव, कुष्यते पादः स्वव, कुष्यन् पादः स्वयमेव, कुष्यमाणः पादः स्वयमेव, रजति वस्त्रं रजकः, रज्यति वस्त्रं स्वयमेव, रज्यते वस्त्रं स्वयमेव, रज्यद्वस्त्रं स्वयमेव, रज्यमानं वस्त्रं स्वयमेव ।
६८ ]
व्याप्ये कर्तरीति किम् ? कुष्णाति पादं रोगः, रज्यति वस्त्रं शिल्पी । शितात्येव ? अकोषि, चुकुषे, कोषिष्यमाणः, प्ररञ्जि, ररजे, रङ क्ष्यमाणं स्वयमेव, परस्मैपदसंनियोगविज्ञानादिह न भवति - तोह कुष्णानाः पादाः, कतीह रजमानानि वस्त्राणि, 'वयः शक्तिशीले ( ५-२-२४ ) इति शान: । क्यात्परस्मैपदविकल्पविधानेनैव सिद्धे श्यविधानं कुष्यन्ती रज्यन्तीत्यत्र 'श्यशवः' ( २-१-११५ ) इत्यनेन नित्यमन्तादेशार्थम् ॥ ७४ ॥
न्या स० - कुषिरजे० - कुष्णाति पादं देवदत्त इति - बहिनिकृष्टान्तरवयवं करोति देशान्तरं प्रापयति वा । कोषिष्यमाण इति - कोषिष्यति पादं देवदत्तः, स एवं विवक्षते, नाहं कोषिष्यामि स्वयमेव कोषिष्यते आनश् । अरञ्जीति - आराङ्क्षीत् वस्त्रं शिल्पी, नाहमङ्क्षं स्वयमेवाऽरञ्जि । कतीह कुष्णाना इति - कुष्यन्ते स्वयमेवेत्येवंशीलाः ततः शाने 'क्रयादेः' ३-४-७९ श्ना 'श्नश्चात: ' ४-२-६६ इति आलोपः । एकधातावित्यत्र तथेत्याश्रयणात् आत्मनेपदविषये शिति क्यस्य प्रवर्तनादत्र क्यो न शान्प्रत्यये हि न परस्मैपदी, नाप्यात्मनेपदी, एवं रज्यन्ते इत्येवंशीलानि रजमानानि । क्यात्परस्मैपदविकल्पेति - कुषिरजेर्व्याप्ये क्याद् वा परस्मै इति क्रियतामित्याशयः ।
स्वादेः श्नुः ।। ३. ४. ७५ ॥
स्वादेर्गणात्कर्तरि विहिते शिति शनुः प्रत्ययो भवति, शकारः शित्कार्यार्थः । सुनोति, सुनुते, सुन्वन्, सुन्वानः, सिनोति, सिनुते, सिन्वन्, सिन्वानः, षुग्ट्, विग्ट्, शिट्, मिट्, चिट्, धूग्ट्, स्तृगुद्, कृग्ट्, वृग्द्, हिंदू, ट्, टुट्, पृ स्पृ, शक्लृट् तिकतिगषघट्, राधसाधंट्, ऋधूट्, श्राप्लृट् तृपद्, दम्भूट्, कृबुट् धिट्, ञिधृषाट् ष्टिघिट, अशौटि, इति टिः स्वादयः ॥ ७५ ॥
वाक्षः ।। ३. ४. ७६ ॥