________________
पाद-४, सूत्र ६५- ६७] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[६५'
गणिष्यन्ते । श्यनिर्देशः किम् ? पोषतिपुष्णात्यादिभ्यो माभूत-अपोषीत् , अभषीत् , प्रपोषोत् , अकोषीत् । परस्मैपद इति किम् ? समगस्त, व्यद्योतिष्ट, व्यत्यपुक्षत ।। ६४ ॥
___न्या० स०-लदिदातादि-आगन्तुनाऽकारेण द्युतेति कृत्वा तृतीयत्वाप्रसङ्गात् द्यतादीति निर्देशः । अश्लिषत जतु च काष्ठं चेति-जतु च कर्तृ, काष्ठं च कर्तृ अश्लिषत कर्म किमपि न विवक्षितं 'श्लिष:' ३-४-५३ इति सक् प्राप्तो 'नाऽसत्त्वाश्लेषे' ३-४-५७ इति निषेधः । ननु द्युतादयः पुष्यादयश्च लुदित: कृत्वा लुदितः परस्मै इत्येतावदेव सूत्रं विधेयम् ? नैवं, द्युतादयः पुष्यादयश्च बहव आदित उदितश्च ततस्तेषां लुदितामुच्चारयितुमऽशक्यत्वाददोषः । ऋदिच्छ्वि-स्तन्भू-स्तम्भू-म्र चुम्लु-चू-ग्रु-चूग्लु-चुग्लुञ्चूनो वा
॥ ३. ४.६५॥ ऋदितो धातोः श्विप्रभृतिभ्यश्च कर्तर्यद्यतन्यां परस्मैपदे वाङ् प्रत्ययो भवति । अरुधत , अरौत्सीत , अभिदत , प्रभेत्सीत , अश्वत् , अश्वयीत , अशिश्वियत , अस्तमत, प्रस्तम्भीत् अस्तुभव, अम्र चत् , अम्रोचीत्, अम्लचत्, अम्लोचीत् . अग्रुचत् , अनोचीत्, ग्रुचो . नेच्छन्त्यन्ये-अग्लुचत् , अग्लोचीत् , अग्लुचत् , अग्लञ्चीत् । ग्लचग्लञ्चोरेकतरोपादानेऽपि रूपत्रयं सिध्यति अर्थभेदात्तु द्वयोरुपादानम्, अन्ये खविधानसामर्थ्यात् ग्लुञ्चेनलोपं नेच्छन्ति, तेनाग्लुञ्चत् । जशजष्वा अजरत् , अजारोत् । परस्मैपद इत्येव ? अरुद्ध, अभित्त ॥६५॥
त्रिच ते पदस्तलुक् च ॥ ३. ४. ६६ ॥
पदिच गतावित्यस्माद्धातोः कर्तर्यद्यतन्यास्ते परे त्रिच प्रत्ययो भवति निमित्तभूतस्य तकारस्य लुक् च । उदपादि भिक्षा, समपादि विद्या। त इति किम् ? उदपत्साताम् ,पदेरात्मनेपदित्वात्त इति आत्मनेपदप्रथमत्रिकैकवचनं तकारो गृह्यते न परस्मैपदमध्यमत्रिकबहुवचनम् , एवमुत्तरत्र-अकारो णिति' (४-३-५०) इति विशेषणार्थः । चकारो 'न कर्मणा जिच्' (३-४-८८) इत्यत्र विशेषणार्थः ।।६६॥
न्या० स.-जिच् ते-न परस्मैपदमध्यमत्रिकबहुवचन मिति * ननु प्रकृतिग्रहणे यङ लुबन्तस्यापि * इति यङ लुक् च इति परस्मैपदित्वे च परस्मैपदस्यापि संभवः ? न, श्रुतानुमितयोः श्रौतसंबन्धो बलीयान् , यङ लोपोऽपि च न दृश्यते, अत एव सिद्धमऽन्ववादि।
दीप-जन-बुधि-पूरितायप्यायो वा ॥ ३. ४. ६७॥
एभ्यः कर्तर्यद्यतन्यास्ते परे त्रिच् प्रत्ययो वा भवति निमित्तभूततलुक् च । प्रदीपि, अदीपिष्ट, प्रजनि, अजनिष्ट, अबोधि, प्रबुद्ध, अपूरि,अपूरिष्ट, अतायि, अतायिष्ट, अप्यायि, प्रप्यायिष्ट । त इत्येव ? अदोपिषाताम् । कर्तरीत्येव ? अदीपि भवता, उत्तरेण नित्यमेव । बुधीति इकारो देवादिकस्यात्मनेपदिनः परिग्रहार्थः, तेन बुधग प्रबोधिष्टेत्यत्र न भवति ।६७