________________
६४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-६१-६४
द्विबंद्धं सुबद्धं भवतीति ज्ञापनार्थः, तेनास्मादऽङोऽव्यभिचारः, अन्येषां तु क्वचिद्व्यभिचारोऽपि, तेन भगवन्मा कोपीरित्यादि बालरामायणोक्त सिद्धम् ।
सर्त्यर्तेर्वा ॥ ३. ४. ६१ ॥
'सृऋ' प्राभ्यां धातुभ्यां कर्तर्यद्यतन्यामङ् प्रत्ययो वा भवति । ऋ-अदादिवादिर्वा । प्रसरत् , प्रसार्षीत् । सर्तेः कर्तरि आत्मनेपदे न दृश्यते इति नोदाह्रियते। ऋआरत् , प्रार्षीत् , समारत, समाष्टं । प्रात्मनेपदे न भवति परस्मैपदे नित्यमित्येके, परस्मैपदे नित्यमात्मनेपदेऽर्तेर्वा सर्तेर्नेत्यन्ये । उभयत्र नित्यमित्यपरे, तिवनिर्देशो यङ्लुबन्तनिवृत्त्यर्थः-असरिसारीत् , पारारीत् ।। ६१ ॥
न्या० स०-सर्त्यः-प्रदादिर्वादिति-निर्देशादेव शवऽभावे तिवनिर्देशस्य समानत्वादुभयोर्ग्रहणमित्यर्थः । प्रात्मनेपदं न दृश्यत इति-'क्रियाव्यतिहार' ३-३-२३ इत्यत्र गत्यर्थवर्जनात् , सर्वे गत्यर्था ज्ञानार्था इति ज्ञानार्थस्यापि नेष्यते । समाष्ट इति-अत्र नित्यत्वात् सिज्लोपात् प्रागेव 'स्वरादेस्तासु' ४-४-३१ इति वृद्धिरिति न्यासः, 'एत्यस्तेर्वृद्धि:' ४-४-३० इति * ज्ञापकज्ञापिता विधयो ह्यनित्या इति ॐ न्यायाद् वा प्रागेव वृद्धिः । सर्तनेत्यन्य इति-ते हि सतरात्मनेपदमिच्छन्ति नाऽङम् । आरारीत्-भृशं पुन: पुनर्वा इयत्ति ऋच्छति वा 'अट्यति' ४-४-३० इति यङ तस्य लुप् ततो द्विवचनम् , 'ऋतोऽत्' ४-१-३८ 'रिरौ च लुपि' ४-१-५६ इति रागमस्ततोऽद्यतनीदि, सिच् , 'स:सिजस्तेदिस्योः' ४-३-६५ ईत् , इट् ‘इट ईति' ४-३-७१ सिच्लोपस्तत: 'सिचिपरस्मै०' ४-३-४४ इति धातोवद्धिरार् , ततः 'स्वरादेस्तासु' ४-४-३१ इति पूर्वस्याकारस्य आकारः ।
ह्वा-लिप-सिचः ॥ ३. ४. ६२ ।। एभ्यः कर्तर्यद्यतन्यामङ् प्रत्ययो भवति । आहृत् , अलिपत् , असिचत् ॥ ६२ ॥ वात्मने ॥ ३. ४. ६३ ॥
ह्वादिभ्यः कर्तर्यद्यतन्यामात्मनेपदे वाङ् भवति । आह्वत, आह्वास्त, अलिपत, अलिप्त, असिचत, असिक्त ।। ६३ ॥
न्या० स०-वात्मने:-माइतेति-स्पर्धापूर्वके आकारणे 'ह्वः स्पर्द्धः' ३-३-५६ इत्यनेनात्मनेपदं, सामान्याकारणे 'ईगितः' २-३-९५ इत्यनेनात्मनेपदम् ।
लृदिद्-यु तादि-पुष्यादेः परस्मै ॥ ३. ४. ६४ ।।
लदितो धातोर्युतादिभ्यः पुष्यत्यादिभ्यश्च कर्तर्यद्यतन्यां परस्मैपदे अङ् प्रत्ययो भवति । लुदित्-अगमत् , असृपत् , अशकत् । द्युतादि-अद्युतत् अरुचत् । द्युतादयो 'धुभ्योऽद्यतन्याम् ( ३-३-४४ ) इत्यत्र परिगणिताः । पुष्यादि:-अपुषत् , औचत् , अश्लिषत् जतु च काष्ठं च, पुष्यादयो दिवाद्यन्तर्गताः 'दिवावेः श्यः' ( ३-४-७२ ) इत्यत्र परि