________________
४७८ ]
स्वोपज्ञोणादिगण सूत्र विवरणम्
[ सूत्र- ९९८-१००५
पूजा संगति करणदानेषु यजुः -अच्छन्दा श्रुतिः, यज्ञोत्सवश्च । अदंक् भक्षणे, प्रपूर्वः, प्रादुःप्राकाश्ये, उत्पत्तौ च, प्रादुर्बभूव । प्रादुरासीत् । टुवेपृङ चलने, वेपुः - वेपथुः ।। ९९७ ।।
इणो णित् ॥ ६८ ॥
इणं गतौ इत्यस्माद् द् िउस् प्रत्ययो भवति । आयु:- जीवितम् । जटापूर्वादपि जटायुः- अरुणात्मजः ।
'तं नीलजीमूतनिकाशवणं, सपाण्डुरोरस्कमुदारवैयम् । ददर्श लङ्काधिपतिः पृथिव्यां जटायुषं शान्तमिवाग्निदाहम्' ।। ६६८ ।।
दुषेडिंत् ॥ ६६ ॥
दुषंच् वैकृत्ये, इत्यस्माद् डिद् उस् प्रत्ययो भवति । दु: - निन्दायाम्, दुष्पुरुषः । ९९९ । मुहि-मिथ्यादेः कित् ॥ १००० ॥
आभ्यां किदुस् प्रत्ययो भवति । मुहौच् वैचित्ये, मुहुः - कालावृत्तिः मिथुग् मेघाहिंसयोः, मिथु :- संगमः । आदिग्रहणादन्येभ्योऽपि भवति ।। १००० ।
चक्षेः शिद्वा ॥ १००१ ॥
चक्षिक व्यक्तायां वाचि, इत्यस्मात् किद् उस् प्रत्ययो भवति, स च शिद्वा भवति । चक्षुः परिचक्षुः, अवचक्षुः, अवसंचक्षुः, अचक्षुः, अवख्युः । बाहुलकाद् द्विर्वचने सचचक्षुः, विचख्युः ।। १००१ ।।
पातेडु' म्सुः ॥ १००२ ॥
पां रक्षणे, इत्यस्माद् डिदुम्सुः प्रत्ययो भवति । पुमान् पुरुषः, पुमांसी, पुमांसः । उकार उदित् कार्यार्थः ।। १००२ ।।
न्युद्भ्यामञ्चेः कका कैसष्टाव च ॥ १००३ ॥
न्युद्भ्यां परादञ्च गतौ इत्यस्मात् कित: अ आ ऐस् इत्येते प्रत्यया भवन्ति, ते च टावत्, टायामिव एषु कार्यं भवतीत्यर्थः । तेन 'अच्च प्राग्दीर्घश्च' इति भवति । नीचम्, उच्चम् । नीचा, ऊच्चा । नीचैः, उच्चैः प्रसिद्धार्था एते । लाघवार्थं सन्ताधिकारेऽप्यकारआकारप्रत्ययविधानम् ।। १००३ ।।
शमो नियो डैस् मलुक् च ॥ १००४ ॥
पूर्वात् णीं प्रापणे, इत्यस्मादुडिदैस् प्रत्ययो भवति, शमो मकारस्य लुग् भवति । शनैर्मन्दम् ।। १००४ ॥
यमि-दमियां डोस् ॥ १००५ ॥